SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। ॥१५६॥ ॥ श्रीभरते. स्वज्ञातिपोषणात् ॥१॥" तेऽप्यूचुर्धातरः-तव गृहे वयं न स्थास्यामः धन्योऽवक्-तर्हि विभज्य तुर्यभागं धनस्य मह्यं । श्रीधन्य नददतु भवन्तः। ततश्चतुर्णा भ्रातॄणां प्रत्येकं हेम्नः कोटयश्चतुर्दश जाताः । तै तृभिर्धन्यदत्तं धनं गृहीतम् । यतः-kol प्रादीयमानं न गृहन्ति, ये ते जगति पञ्चषाः । स्वकीयं परकीयं वा, धनमिच्छन्ति जन्तवः ॥१॥” ततो हेमयुता यावत्ते || all चलितास्तावद्वित्ताधिष्ठायकया देव्या द्वारे ते स्तम्भिताः । व्यावृत्तास्ते विलक्षाः सन्तो गर्व मुक्त्वा धन्यपार्श्वेऽ- भ्येत्योचुः । त्वदीयं भाग्यमस्माभिर्दृष्टं भाग्यविवर्जितैः । मुधा अस्माभिस्त्वयि मत्सरः कृतः। अद्य प्रभृति नास्माभिर्मनाक् त्वयि मत्सरः कर्तव्यः । ततो धन्योऽवग-भवन्तः समाधिना भुञ्जन्तु देवपूजादिपुण्यं कुर्वन्तः । ततस्ते al तथा देवपूजादिकं कर्म कुर्वाणाः समाधिभाजोऽभूवन् । अन्येास्तत्रागताश्चतुर्ज्ञानधारिणो धर्मघोषसूरयः तेषां पार्श्वे || धर्म श्रोतुं धन्यः सकुटुम्बोऽगमत् । स चतुर्ज्ञानी धर्मोपदेशं ददौ । तथाहि-जन्तूनामवनं जिनेशमहनं । भक्त्यागमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम् । मायाया हननं क्रुधश्च शमनं लोभद्रुमोन्मूलनं,d चेतःशोधनमिन्द्रियाश्वदमनं यत्तच्छिवोपायनम् ॥१॥ देशनान्ते धन्येन पृष्टं-भगवन् ! केन कर्मणा भ्रातरोऽमी ॥ १५६ ॥ ममाग्रजाः व्यवसाये सत्यपि निर्धनाः । एतेषां गृहे धनं कथं न तिष्ठति ? सूरीन्द्रः प्राह-एतैर्भूरितरं दानं न दत्तं । Jain Education bnal For Private & Personal Use Only Ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy