________________
पित्रादिभिः सह राजगृहपुरं ययौ । श्रेणिकेन तदा महोत्सवपुरस्सरं पुरमध्ये निवेशितो धन्यः । चतस्रो महेभ्यानां । कन्यकास्तदा धन्यः पर्यणैषीत् । प्रियाष्टकं तदा धन्यस्य जज्ञे । तदा धनदस्य धन्यस्य च धनेनान्तरं न ज्ञायते ।। इतस्ते भ्रातरो धन्यदत्तग्रामाः सुखेन तिष्ठन्तिस्म । क्रमात तत्र दुष्काले पतिते सर्वे लोका विदेशं ययुः । तेऽपि । धन्यसोदराः क्षीणधना त्यक्तगर्वा अभूवन् । अनिष्पन्नेषु ग्रामेषु निईनास्ते स्पर्डी धन्येन दधाना लोकैर्हक्विता मालवं ययुः । आजीविकाकृते वृषान् बहुभारभरितान् कृत्वा ग्रामाद्ग्राम गच्छन्तस्ते धनावहपुत्राः खेदं लभन्ते स्म ।। निर्भाग्या लाभमिच्छन्तस्ते गोधूमैर्वृषान् भृत्वा वाणिज्याथै राजगृहे समाययुः । तेषु चतुष्पथस्थितेषु क्रयविक्रयादिकुवत्सु तुरगारूढो धन्यो नृपमन्दिरात् समाययौ । धन्यस्य श्रियं तथाविधां बान्धवानां तादृशी च वीक्ष्य जनोऽवदत्-हा दै-1|| वनिर्मितं कीडग् बान्धवेष्वप्यन्तरं दृश्यते। यतः-"एकोदरसमुत्पन्नाः, एकनक्षत्रजातकाः। न भवन्ति समाः शीलाः, यथा बदरीकण्टकाः॥१॥" धन्यो लोकवचः श्रुत्वा करुणापरोऽश्वादुत्तीर्य पादयोगपतत् । अत्यथै लज्जितास्ते मौनं दधुस्तदा ।। । ततस्तान् गृहीत्वा स्वगृहं ययौ धन्यः। ततस्तान वर्यविष्टरे निवेश्य धन्यः प्राह-युष्माकमियं लक्ष्मीमगृहसम्बन्धिनी । स्वेच्छया विलसन्तु भवंतः । यतः-"विपुलापि न सा लक्ष्मी-भुज्यते या न बन्धुभिः । काकोऽपि वर्ण्यते सद्भि-भन्यः
Jain Education
For Private & Personal Use Only
T
ww.jainelibrary.org
AMI