________________
॥ श्रीभरते. श्वर वृत्ति ॥१५५
धन्य ! त्वं मा स्वभ्रातृजायाः खेदं नय । पापं तव लगदस्ति इत्यादि सचिवैरुक्तो धन्यो मायां मुक्त्वा भ्रातृजायात्रयं । श्रीधन्य
चरित्रम्। निजनिकेतने प्रैषीत् । ततः संरम्भं मुक्त्वा सर्व कुटुम्ब प्रकटीकृत्य भक्तिपूर्व धन्यः प्रणनाम । जेमणकं च चके । ततो धन्यो नृपपार्श्वे नन्तुं गतो यावत्तावद्राजाऽसिनं दत्वा तस्मै जगौ-भो धन्य ! त्वं धन्योऽसि । त्वया कथमेता । भ्रातृजायाः खेदिताः सुचिरं ? धन्योऽवग्-भोभूप श्रूयतां बन्धुप्रिया बन्धूनां मिथो भेदं कुर्वन्ति । यतः-“बन्धूनां स्नेहबहानां, विना नारी नहि च्युतिः। तालकस्य द्विधाभावं, करोति कुञ्चिका क्षणात् ॥१॥" नारीणां वचनैर्देव, बान्धवाः स्युः पृथक् पृथक् । इति हेतोर्मया भ्रातृ-जायाः संप्रति खेदिताः॥२॥ इत्यादि प्रीतिसंलापैः प्रीणयामास भूपं धन्यः । ततः क्षोणीशं प्रणम्य धन्यः स्वगृहे गतः । ततो विनयेन पित्रादीन् प्रणम्य पूर्व संजातं स्वगृहवृत्तान्तमापृच्छद्धन्यः । ततः श्रेष्ठी जगौ-यदा त्वं निर्गतस्तदा राज्ञा सर्वस्वं जगृहे । येषु देशेषु यद् द्रव्यं व्यवसायार्थम|| भूत् तत्तत्तदा विनष्टम् । दारिद्रे समागते गृहे मुद्रां दत्वा आजीविकाकृते वयमत्र समागताः । ततो राज्ञा शतानी
केन समं महाप्रीतिर्धन्यस्याजनि । सुभाषितादिभिर्मिथो राजधन्यौ कालं क्षणमिव नयतः। ततः पिता सर्वेषां पुत्राणां । पुरः प्राह-भवद्भिदृष्टं धन्यस्य भाग्यम् । ततः सर्वे सोदरा धन्यन मानिताः। ततः पत्नीद्वययुतो धन्यो माता
॥१५५॥
For Private Personal Use Only
www.jainelibrary.org
Jan Education international