________________
तेन समं युद्धं कर्तुं न युज्यते । यदा धन्योऽत्रायातस्तदा त्वयैव बहुपरिच्छदः कृतः । बली जातोऽधुना, कुत्रापि ।
विषमकार्ये क्षिप्त्वा हन्यते । अयं दुर्नयं कदापि न करोति । अधुना न ज्ञायते । करमा तोरेवं करोति, किंचित । IN कारणं विद्यतेऽत्र । पृच्छयन्तामेताः स्त्रियः । इत्यादि विमृश्य ताः पृष्टा अमात्यैः । भवन्तीनां कोऽस्ति बान्धवो
देवरो वा ? । ताः प्रोचुः-अस्माकं धन्याभिधो देवरः पुरान्निसृत्य कुत्रचिद् गतः । अधुना न ज्ञायते जीवन्नस्ति । मृतो वा । सचिवैः प्रोक्तं-तस्याङ्गलक्षणं यूयं वित्थ ? येन प्रकटीक्रियते सः । ताः प्रोचुः-अस्माकं देवरस्य पादौ । पद्माङ्कितौ हस्तौ च ऊर्ध्वरेखाङ्कितौ । तैरमात्यैरूचे-तर्हि धन्यस्य चिन्हवीक्षणहेतवे पादौ प्रक्षाल्येताम् । ततस्ताः । स्त्रियोऽमात्यैर्धन्यपाधै प्रेषिताः । परीक्षार्थ भ्रातृजायात्रयमागतं वीक्ष्य धन्योऽब्रवीदिति-यूयं किमर्थमिहागताः, युष्माकं किं प्रयोजनमस्ति । ताः प्रोचुः-देवरोऽसि वं नः । धन्योऽवक्-किं भवन्तीनां भ्रमोऽभूत् । अथवा |कि यूयमाकाशे सुप्ताः, स धन्यः श्रूयते राजगृहेशस्य सुतापतिः । लक्षणं विद्यते क्रमयोरस्माकं देवरस्य, तेनैकदा पादौ प्रक्षालयितुं त्वं देहि । ऊचे धन्यः परस्त्रीणां स्पर्शात पातकं भवेत् । नाहं परस्त्रिया साई वच्मि । स्पर्श तु का कथा । तेनेत्युक्ते ता मौनेन स्थिताः खेदं दधत्यः सचिवैरुक्तं-खेदं मा कुरुध्वं यूयं स्थिरं तिष्ठन्तु । भो
Jain Education in
For Private Personal Use Only
www.jainelibrary.org