________________
नैतत्, परस्त्रीहरणं शुभम् ॥१॥ तेषामिति वचः श्रुत्वा वार्तामपरां कर्तु धन्यो लमः । ततो धन्यस्यानीदृशमभिप्रायं मत्वा ते इभ्याः खं खं गृहं ययुः, मिथो निमन्त्रयन्तिस्मेति । एषः पूर्व वयों ज्ञातोऽधुना तु प्रकृतिरस्य परावृताऽभूत् । यतः " बहुश्री राजसन्मानं, महाकुलजनिः पुनः । एतानि पुरुषं सद्यो, नयन्ति विकृति सदा॥१॥" ततः श्रेष्ठी धनावहो धन्यसाधोः पुरो गत्वा जगाद-अन्यायं कुरुतेस्म योऽत्र तस्य दण्डं कुरु त्वम् । तदन्यायं परित्यज्य मम स्नुषां मुञ्च । ततो धन्योऽवग-भो भटा एष वधू मार्गयति, तेनाऽयं गर्भागारे क्षिप्यताम् । ततस्तैभेटेरुत्पाट्य धनावहो गर्भागारे क्षिप्तः । ततस्तत्र गत्वा धन्यः कृताञ्जलिः पितरं प्रणम्य प्राह-क्षन्तव्यो मेऽपराधस्त्वया । मया बालकवच्चापल्यं कृतम् । अहं तु तव पुत्र एव । तत् श्रुत्वा श्रेष्ठी हृष्टः। ततो धन्योऽवक-त्वयोच्चैन| वक्तव्यमधुना । तत्रस्थः पिता गौरवितः । श्रेष्ठिनः पत्न्यादिकं विस्मृतं तदा । ततो मातापि तत्रैत्य प्राह-भो धन्यसाधो त्वया कथं मम स्नुषा पतिश्च रक्षितः । ताभ्यां कोऽन्यायः कृतः । ततो गीगारे तां मातरं स्थापयित्वा मध्ये गत्वा प्रणम्य पूर्ववत् धन्यो मातरं क्षमयामास । एवं भ्रातरोऽपि रावां कर्तुं समागताः स्थापिताः । ततो भ्रातृजायाः पूत्कारं कुर्वत्यो धन्यद्वारे समेत्य प्रोचुः-असौ राजा अन्यायं कुरुते, अस्मदीयाः पतयोऽपि धृताः अनेन ।
Jain Educatio
n
al
For Private & Personel Use Only
alww.jainelibrary.org