________________
॥ श्रीभरतेश्वर वृत्तिः॥
वधूं वीक्ष्य वृद्धो वृद्धवर्धू प्रत्यवक्-क गता सुभद्रा विलोक्यतां बही वेला जाता । वृद्धा वधूः प्राह-तकदोहिनी चरित्रमा गृहीत्वा गृहीत्वा धनसाधुगृहे गता दासीव तस्य गृहे तिष्ठति । स परिवृढो वर्यमाहारादि तस्यै दापयामास । तेनातिलोभात स्थिता तत्र संभाव्यते । ततस्तत्र गत्वा वृद्धा वधूस्तां दिव्याभरणभूषितां वीक्ष्य पश्चात्त्वरितं समेत्य । श्वसुराग्रे प्राह-मयोक्तं-एषा तत्र यान्ती कदाचिहिरूपं करिष्यति । अद्य तत्र गता सती तस्य धन्यसाधोः प्रियाऽजनि।। स्त्रीणां चरित्रं को जानाति । यत:-" अश्वप्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यता च । अवर्षणं चापि सुवर्षणं च, देवा न जानन्ति कुतो मनुष्याः॥१॥ प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ २॥" तच्छ्रुत्वा श्रेष्ठी वज्राहत इव क्षणं भूत्वा व्यचिन्तयत् । अनया स्नुषया किं कृतं, हा । धिक्, कुलहयेऽपि कलङ्कः कृतः । ततः श्रेष्ठी तं वृत्तान्तं, स्नुषाहरणकृतं व्यवहारिणां पुरः प्राह । व्यवहारिणः प्रोचुःधन्यसाधोरस्य न कदाचित् कुमार्गे प्रवृत्तिर्दृष्टा । धन्योऽसौ गीयते परनारीसहोदरः । अधुना तु यद्विपरीतं कृतं तत्र हेतुरस्माभिः सम्यङ् न ज्ञायते । एष गूढमना विद्यते । तथापि तस्याग्रे भवत्स्नुषाछोटनविषये कथयिष्यते । तस्मिन् । श्रेष्ठिनि स्वस्थाने गते इभ्या धन्यसाधोरन्ते गत्वा प्रोचुः । धन्यस्त्वं राजजामाता, धन्यस्त्वं साधुशेखरः। तवेदं युज्यते ।
For Private 8 Personal Use Only
Jain Educational!
IL.jainelibrary.org