________________
शालिभद्रखसा गोभद्रश्रेष्ठिपुत्री । त्वन्नामाभिधानेन पुरुषेण परिणीताऽहम् । स च गृहकलहे जायमाने विदेश
गतः। धन्योऽवग्-भद्रे तव पतिर्विदेशं गतः सन् त्वां विना मृत एव सम्भाव्यते । ततः पतिव्रतं त्यक्त्वा - मया सह भोगान् भुंक्ष्व । साऽपि तद्वचः श्रुत्वा वजाहतेव हृदि कर्णौ पिधाय तं प्रत्युपशङ्कासारमाह
“ गतियुगलकमेवोन्मत्तपुष्पोत्करस्य, त्रिनयनतनुपूजा वाऽथवा भूमिपातः । विमलकुलभवानामङ्गनानां शरीरं, पतिकरजरजो वा सेवते सप्तजिह्वः ॥१॥" हे धन्य साधुरसाधुस्त्वं दृश्यसे मयाऽधुना । यन्मांवाञ्छसि परास्त्रियम् । परस्त्रीभोगादिह लोके परलोके च दुःखं लभते जनः । यत:-"विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयंका प्राप, नरकं दशकन्धरः ॥१॥" धन्योऽवक् कुप्य मा भद्रे!. कारणं च निशम्यताम् । परस्त्रीलम्पटो नाऽहं, नाहमन्यरमाहरः॥२॥ इदं वचनं त्वां परीक्षितुं मया जल्पितम् । साऽवग्-यदि मम त्वं पतिरसि तदा किमप्यभिज्ञानं कथय । सोऽवग-राजगृहेशस्य धन्यो जामाता बभूव । तत्र प्रियात्रयं मुक्त्वा गात्रमात्रोऽत्र चागमम् । मया| तुभ्यमेका मुद्रिका रत्नमयी दत्ता । इत्युक्ते तेन सा प्रियं मत्वा धन्यंमन्या पापरा अधो विलोकयामास । ततो जीर्णवस्त्रपरित्यागाद्वर्यवस्त्राभरणभूषितां प्रियां कृत्वा धन्यश्चक्रे स्वगृहस्वामिनी ताम् । इतः तामनागतां लध्वी
En Educator
For Private
Personel Use Only
.jainelibrary.org