________________
॥ श्रीभरते
श्वर वृत्तिः ॥
।। १५२ ।।
Jain Education
व्यश्राणि । ततो धन्योऽवग् - अस्मद्गृहे बह्रयो गावो महिष्यश्च दुह्यन्ते, तेन तक्रग्रहणाय त्वयैका वधूर्वारकेण प्रेष्या । ततः श्रेष्ठी जगौ - महान् प्रसादस्ते, अतिप्रणामं चकार । ततो धन्यो दैवगतिं निन्दन् बहुजनपरिवृतः स्वगृहं ययौ । ततः प्रिया प्राह धन्यः - भो प्रिये ! एकः श्रेष्ठी करुणास्पदं बहिः सरः खनितुं समागतोऽस्ति । तस्य पुत्रचतुष्टयं | विद्यते । तेषां पत्न्यः क्रमादेताश्चतस्रः सन्ति । तासां मध्याद्यदा एकाऽपि वधूरायाति तदा तस्यै महाकुम्भस्तत्रपूर्णः | समर्पणीयस्त्वया । यदा लघ्वी स्नुषा समेति तदा तस्यै कुम्भकादि धान्यं शाल्यादि देयं त्वया । तेऽतीव दुर्बलाः सन्ति । तेभ्यो दानं ददत्यास्तवापि पुण्यं भविष्यति । दीनेभ्यो दानं दत्तं बहुपुण्याय भवति । यतः - " अभयं सुपत्तदाणं, अणुकंपा उचियकित्तिदाणं च । दोहिवि मुक्खो भणिओ, तिन्निवि भोगाइअं दिति ॥ १ ॥ " पतिनिदेशात् सा तस्यै शाटिकां ददौ । स्नुषां शाटिकासहितां बहुतक्रमानयन्तीं वीक्ष्य श्रेष्ठयाह — एषा भाग्यवती स्नुषा । तच्छ्रुत्वा श्रेष्ठिनं प्रति तिस्रो वध्वः प्रोचुः समत्सराः । त्वया व्याख्यातोऽग्रेऽस्माकं देवरो विदेशं गतः । अधुनैवं | व्याख्यायमानाऽसावपि गमिष्यति । दिवा च मृत्तिकावहनं कुरुते । रात्रौ च भूमौ स्वपिति । एतावती एषा भाग्यशालिनी | विद्यते । अन्यदा धन्यस्तां सुभद्रां समागतां वीक्ष्य पप्रच्छ का त्वं कथमिहागता ? लज्जयाऽघोमुखी साऽवग्- अहं
For Private & Personal Use Only
श्री
श्रीधन्यचरित्रम् |
॥ १५२ ॥
ww.jainelibrary.org