SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ गतः । तदा जीव नन्द जयेत्यादि बिरुदावल्यः बन्दिभिः प्रोच्यन्ते । तदा जय जयेति भाषिणः कर्मकराः सर्वे निज निजं कर्म त्यक्त्वा धन्यं प्रणमन्ति स्म । तेषां मध्ये खकुटुम्बकं वीक्ष्य धन्यो दध्यौ किमेतदेवेन कृतम् । माता चेयं । पिता चायं, ममैते सोदरास्त्रयः । भ्रातृजायाः पुनरिमाः, सुभद्रा प्राण वल्लभा ॥१॥ गोभद्रो जनको यस्या, भद्रा || यरया जनन्यहो । शालिभद्रानुजा सेयं, शीर्षे वहति मृत्तिकां ॥ २॥ विचिन्त्येति धन्यः प्राह-यूयं कुतः समागताः ? ततः ते कर्मकराः स्थाननामादि संगोप्य मुषाउत्तरं ददुः इति धन्यो दध्यौ-एते मां नोपलक्षयन्ति । यतोऽहमीदृशीं| राज्यावस्था प्राप । ममैते स्वजना दुःखावस्थायां पतिताः सन्ति । यतः-“केऽपि सहस्रंभरयो, लक्षम्भरयश्च केऽपि नराः।। Laनात्मम्भरयः केऽपि. फलमेतत्सुकृतदष्कृतयोः॥१॥" ततः स्वसेवकानाकार्य धन्यः प्राह-एतेषां भोजने घृतं । देयं, एतेऽतीव दुःस्था दृश्यन्ते । दयास्थानं च वैदेशिका विद्यन्ते । ततस्तैरुक्तं-स्वामिन् ! सर्वेषां घृतं स्यात्तदा । वरम् । राज्ञोक्तमेवं भवतु । ततः कर्मकराः सर्वे हृष्टा घृतं भक्षयन्तो जल्पन्ति स्म मिथा-एतेषां प्रभावतोऽस्माकमपि । भोजने घृतमभूत् । द्वितीयेऽपि दिने तत्रागतो धन्य आहूय श्रेष्ठिनं प्रति मधुरया गिरा प्रोचे-श्रेष्ठिस्तव कुटुम्बमतीव दुर्बलं दृश्यते । श्रेष्ठी जगौ-तकाभावात्सर्वस्य कुटुम्बस्य रात्र्यन्धताऽजनि किं क्रियते, पूर्वकृतकर्मणैवविधाऽवस्था । Jan Education For Private Personal use only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy