________________
॥१५१॥
॥ श्रीभरते- एकाग्रचित्तवृत्या तु विज्ञप्ति मे शृणु त्वं विज्ञप्ति मेऽवधारय ॥ यतः-" सुखे च विभवोल्लासे, स्त्रीभिः सेव्वं पितुर्ग्रहम् । श्रीधन्यश्वर वृत्तिः॥
श्रेष्टिना श्वसुरस्य गृहं दुःखे, सुखे मोच्यं न सर्वदा ॥१॥ दुःस्त्री पितृगृहं याति, दृष्ट्वा दुःखं प्रियालये, पितुर्गृहसुखं मुक्त्वा, चरित्रम् । दुःखे तिष्ठन्ति सुस्त्रियः ॥२॥ सुखे दुःखे तथा दौःस्थ्ये, विदेशगमनेऽपि वा । देहच्छायेव तन्नूनं, स्थास्यामि श्वसुरालये ॥ ३ ॥ " तस्मादहं सुखे दुःखे वा श्वसुरालये एव स्थास्यामि नान्यत्र । हृष्टः श्रेष्ठी धनसारः वधूवचः ।
श्रवणात् । सपरिवारो गृहद्वारे मुद्रां विधाय निर्ययौ निशि । ग्रामाद् ग्राम पुरात् पुरं देशाद्देशं भ्रमन् धनसारः ४ कर्मकरकर्म कुर्वन् कौशाम्बी पुरीं ययौ । श्रेष्ठी नरं कंचित् तत्र दृष्ट्वाऽपृच्छत् । भो भद्र कथ्यतां निद्रव्यो योऽत्र |
नरः समेति स कथं निर्वाहं करोति । नरः प्राह-हे श्रेष्ठिन् ! सधना व्यवसायेन निर्वाहं कुर्वन्ति । निर्धना: कर्मकराः परगृहे कर्म कृत्वा निर्वहन्ति । ये च निर्धना अत्रायान्ति, ते धन्यराजस्य सरसः खन्यमानस्य खननद्रव्येण निर्वाहं कुर्वन्ति । नराणां तत्र सरसि दीनारद्वयं दीयते, स्त्रीणामेकं प्रवाहेण दीयते । कष्टाहेषु ते भोजनं कुर्वन्ति सरःखनकाः । तच्छ्रुत्वा धनसारः सकटुम्बस्तत्र सरसि गत्वा खननकर्मकरैः साई खननकर्म करोति । तत्र ॥१५१ ॥ खननद्रव्येण च निर्वाहं करोति । अन्येधुर्धन्यः शिरोधृतश्वेतछत्रोऽश्वारूढः पदातिश्रेणिवेष्टितः सरोवरविलोकनार्थे ।
For Private 8 Personal Use Only
in Education International
www.jainelibrary.org