________________
IN कौशाम्ब्यां ययौ धन्यः । तत्र शतानीको राज्यं करोतिरम । तस्य कोशे एकरत्नममूल्यमस्ति । परीक्षा तस्य कोऽपि न |
वेत्ति । ततः पुरे तत्र राज्ञा पटहो वाहितः । यो रत्नस्यास्य परीक्षां करोति तस्य तुष्टो राजा हस्तिनां शतमेक वाजिनां शतपञ्चकं सौभाग्यमञ्जरीपुत्री ग्रामपञ्चशतीयुतां दास्यति । ततो धन्यस्तं पटहं तदा स्पृष्ट्वा राजसभायां ययौ । ततस्तेन धन्येन तस्य रत्नस्य परीक्षा कृता, यथा सर्वा सभा चमत्कृता । राजा पुत्रीं तस्मै दत्वा ग्रामादि पूर्वोक्तं ददौ महोत्सवपुरस्सरम् | ततः साधुरसौ इति तस्य धन्यस्य लोके ख्यातिरभूत् । द्रव्यार्जनकृते नराः तेन धन्येन प्रेषिताः देशेषु भूरिषु । अन्येयुः धन्येन ख्यात्यर्थ लोकाचारस्वभावतः पुराबहिः सरः रवानयितुमारब्धम् । इतः श्रेष्ठीगृहे धन्ये निर्गते धनं सर्व गतं यतः ततः श्रेष्ठी दुःख्यभूत् धनं विना । यतः-" सहोदयव्यथाः पञ्च, दारिद्यस्यानुजीविनः । ऋणं दौर्भाग्यमालरयं, बुभुक्षात्यन्तसन्ततिः॥१॥ तैलं नास्ति ॥२॥" ततोऽथ दध्यौ श्रेष्ठीपुनर्नैव गौरवं लभते नरः पूर्वं धन्यप्रभावेण विख्यातोऽत्र पुरेऽभूवम् । सांप्रतं लघुवाणिज्यं कथं कुर्वे विमृश्येति कुटुम्बेन । साई विचारं कृत्वा श्रेष्ठी सकुटुम्बो द्रव्यार्जनहेतवे विदेशं प्रति चिचलिषुरभूत् । श्रेष्ठी धन्यजायाद्वयं प्रेषयामास । ततः श्रेष्ठी सुभद्रां प्रति प्राह-याहि वत्से स्वपितृगहे । सुभद्रा प्राह-तात ! युक्तमुक्तं त्वयाऽधुना।
Jain Education Internationa
For Private
Personal use only
APILainelibrary.org