________________
॥ श्रीभरते- श्वर वृत्तिः। ॥१५॥
भरणैर्भषायित्वा सप्रियो धन्यः प्रणणाम भक्तथा, पुनर्नत्वाऽपृच्छत् धन्यः । क गतं तत्सर्व धनम् ? श्रीधन्य
चरित्रम्। तौ पितरावूचतुः-त्वद्गमनादनु धनमपि गतम् । कमात्त्वमत्रस्थो भूपादिविश्राणितपुत्रीकः श्रुतोऽस्माभिः । तेनात्रा-di गमाम वयम् । पुनरपि धन्योऽभ्यधात्-मातमें भ्रातरः क गताः । साऽवोचत्-ते त्रयोऽपि लज्जमाना बहिः स्थिताः । सन्ति । धन्यस्तु तान् भ्रातृन् तत्रानाय्य सन्मानदानपूर्व पृथग् ग्रामान् ददौ तेभ्यः। यतः-" सन्तः स्वभावतः । सर्व-शत्रुमित्रादिषु स्फुटम् । करुणावासितस्वान्ताः, भवन्ति प्रतिवासरम् ॥१॥” ततः सर्व कुटुम्ब सन्मानदानतः धन्यः प्रीणयतिस्म । मातापितरौ धन्यं धन्यमिति जल्पतः। यदा ते सोदरा धन्ये मत्सरं कुर्वन्ति धन्यश्लाघामसहमानास्ते गृहवित्त विभज्य पृथक् स्थातुं जल्पन्ति । ततः श्रेष्ठी दध्यौ । निर्भाग्यशेखरा एते नन्दना ध्यात्वेति तान् प्रति श्रेष्ठी जगौ-धन्ये मत्सरो न क्रियतेऽस्यैव भाग्यं वर्तते । ते प्रोचुः पुनः पुनर्यत्तात! त्वया धन्यश्लाघा क्रियते नैतद्युक्तम् । यदा पूर्वमात्मनो गृहान्निर्गतः तदात्मीयगृहाद्रत्नानि बहूनि लात्वा गतः। तेनात्र तैरत्नै महर्डिको जातो राज्ञा सम्मानितश्च । तातपादाः प्रकुर्वन्ति श्लाघां धन्यस्य । अद्य पृथग भवनं विना अस्माभिन भोक्ष्यते । इति भ्रातृवचः श्रुत्वा धन्यः पुनः स्वकुटुम्ब सुप्तं मुक्त्वा रात्रावेव शनैर्निर्गतो दूरदेशं यातुम् । नानादशान् भ्रान्त्वा ।
॥१५०॥
Jain Education
For Private & Personel Use Only
Follow.jainelibrary.org
all