________________
॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १४ ॥
| विज्जदाणवेयड्ढे | उत्तरदाहिणसेढी, सट्ठी पन्नास नयराई ॥२॥" अन्येद्युर्भगवान् विहरमाणो बहुलीदेशविभूषणस्य तक्ष|| शिलापुरस्य बहिरुद्याने सन्ध्यायां समेत्य कार्योत्सर्गे स्थितः । तदा पितुरागमनं ज्ञात्वा बाहुबलिर्ध्यातवान् । अधुना रात्रौ प्रायो वन्दनं मम न शोभते, प्रातर्विस्तरात् प्रभुं प्रणस्यामि एवं ध्यात्वा प्रातर्विस्तरं कृत्वा यावत् प्रभुं नन्तुं याति बाहुबलिः तावदितः पूर्वं प्रभुर्विहारं व्यधात् । बाहुबलिः प्रभुमदृष्ट्वा खिन्नः सन् रुरोदतमाम् । अलक्ष्यलक्ष्य ! क गतस्त्वम्, एकशो दर्शनं देहि । ततो मन्त्रिवचसा स्वस्थीभूय तत्र प्रभुपादुकायुक्तं स्तूपं महान्तं रत्नमयं कारयामास बाहुबलिः । प्रभुरपि मौनावलम्बी वर्षसहस्रान्ते पुरिमतालपुरे शकटाह्ने वने कृताष्टमतपा वटवृक्षस्याधः स्थितः । फाल्गुन कृष्णैकादश्यां उत्तराषाढानक्षत्रे प्रातः प्रभुः केवलज्ञानं प्राप । तत्क्षणादेव सर्वे सुरेन्द्रास्तत्र समेत्य समवसरणं रचयामासुर्यथाधिकारम्, ततो 'नमो तित्थस्सेति कृत्वा भगवान् सिंहासनमुपविष्टः । द्वादश पर्षदः उपविष्टाः, इतो भरत - स्वायुधशालायां चक्ररत्नं समुत्पन्नम्, ततो द्वयोश्चक्ररत्नप्रभुकेवलज्ञानोत्पत्त्योः वर्धापनिका समकालं भरताग्रे समायाता । भरतो ध्यातवान् प्रथमं चक्रपूजां करोमि अथवा युगादिदेवपूजां करोमि, एवं ध्यात्वा क्षणाद्भरतो दध्यौ | धिग् मां यदेवं ध्यातं मया । यतः - " तामि पूइए चक्कं, पूइयं पूअणरिहो ताओ। इह लोइयंमि चक्कं, परलोअसुहावओ
1
Jain Education International
For Private & Personal Use Only
श्रीआदीश्वर चरित्रम् |
॥ १४ ॥
www.jainelibrary.org