SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ताओ ॥ १॥” ततो मरुदेवी पितामहीं पुत्रवियोगाश्रुजातनेत्रपटलां हस्तिकुम्भस्थलमध्यारोप्य भरतः परमेश्वरं वन्दितुं प्रतिचचाल । समवसरणं दृष्ट्वा भरतोऽवग-हे मातर्विलोकय स्वपुत्रस्याद्भुतां विभूतिं शृणु च देवदुन्दुभिनिनादांश्च । एका तावत् स्वल्पा मम ऋद्धिः द्वितीया प्रभुता तव पुत्रस्य विभूतिः, द्वयोरंतरं मेरुसर्षपयोरिव हंसकाकयोरिव चिन्ता मणिकर्करयोरिव राजरङ्कयोरिव दृश्यते । ततो मरुदेवी देवदुन्दुभिशब्दं श्रुत्वा हर्षाश्रुपतनादुत्तरितनेत्रपटला समव-|| - सरणं ददर्श । तत्क्षणात् सर्वकर्मक्षयात् केवलज्ञानं प्राप्यायुषः क्षयान्मक्तिं गता । “सनुर्यगादीशसमें भ्रान्त्वा क्षितौ येन शरत्सहस्रम् । यदर्जितं केवलरत्नमय,स्नेहात्तदेवाय॑त मातुराश ॥१॥ अतिमोहं जिने कुर्यात्, त्यक्तुं चेच्छक्यते न सः । यथा श्रीमरुदेव्याप, कुम्भिकुम्भस्थिता शिवम् ॥ २॥" तदा देवाः समेत्याग्निसंस्कारक्रियां व्यधुः । भरतः समवसरणे गत्वा प्रदक्षिणात्रयं दत्त्वा प्रभुं प्रणम्य धर्म श्रोतुमुपविष्टः । प्रभुणेति धर्मोपदेशो ददे शोकच्छिदे । संसारंमि समुदे, अणोरपारंमि दुल्लहं ए। मणुअत्तजाणवत्तं, विसालकुलजाइदलकलियं ॥१॥ निव्वाणपुरी चिट्ठइ, भवपारावारतारणसमत्था । ते न पवडंति जीवा, मुत्तुं मणुअत्तबोहित्थं ॥२॥ लोभमूलानि पापानि, रसमूलाश्च व्याधयः ॥ स्नेहमूलानि दुःखानि, त्रीणि त्यक्त्वा सुखीभव ॥ ३ ॥ संसारंमि असारे, नत्थि सुहं वाहिवे Jain Educationpell For Private & Personel Use Only l w .jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy