SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ ॥ श्रीभरते- लाभं दर्शयिष्यथ यूयम् । प्रवृत्ता व्यवहतु ते तु । धन्यस्तु बलाढ्यं मढकं लात्वा राजपुत्रमेढकेन सममयोधयत् । श्रीधन्यस्य चरित्रम्। दीनाराणां सहस्रं पणीकृत्, यस्य मेढको हारयति सोऽन्यस्मै दीनाराणां सहस्रमर्पयति । तथा धन्यराजपुत्रमेढकयोयुध्यमानयोर्धन्यमढकेन जितम् । ततो दीनारसहस्र तत्र धन्येनार्जितम् । धन्यो दीनारसहस्रं लात्वा गृहमाययौ ।। अपरे सोदराः खल्पलाभाः समाययुः । धन्ये प्रशंसिते मातापितृभ्यां पुनस्ते द्वितीयेऽहनि प्रोचुः-एकशोऽद्यानेनार्जितं धनं तेनास्य वर्णनं क्रियते । अस्माभिस्तु बहशो धनं पुरा यदर्जितं तद्विस्मृतं किं क्रियते । पुनः परीक्षा Kal क्रियताम् । ततः पितृभ्यामर्पिताः षष्ठिः कल्याणमाषकास्तेभ्यः पृथक पृथक [ दत्ताः] । सर्वादरेण व्यवसायं कृत्वा अप्राप्तलाभास्त्रयोऽपि गृहमाययुः । धन्यस्तु धीमान् धर्मधुर्य आपणमध्ये गत्वा पणायोपाविशत् । इतस्तत्र Nमहाधनः श्रेष्ठी कृपणशेखरो भरिभिरारम्मैर्धनमर्जयामास । दत्ते किमपि नो धर्मे परिवारस्यापि जीर्णवस्त्रान्नदान । विश्राणयति, स्वयं जीर्ण वस्त्र परिधत्ते, धान्यं बर्जरीसंसक्तमन्नं भुङ्क्ते । घृतस्थाने तैलमेव स्तोकं भुङ्के । वार्षिकादिषु । पर्वसु मनागपि धनं न व्ययति स्म । ताम्बूलस्य स्थाने गुंदिकादिपत्राणि भक्षयतिस्म । अन्य पुरुषं धनं व्ययन्तं वीक्ष्य शिरोतिर्भवत्यस्य । लक्ष्मीलक्ष्मीरिति कुर्वन् क्षणमपि विश्रामं न गृह्णाति । खनित्वाऽन्यदा गृहस्यान्तर्गत Join Education lol lol For Private & Personal Use Only Tww.jainelibrary.org.
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy