________________
मानुष्यं, कार्य तत् किञ्चिदुत्तमैः । येनाशु लभ्यते मुक्ति-सातं संसारिणा स्फुटम् ॥ १॥ संसारंमि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥२॥” इत्यादि तत्पावे धर्मोपदेशं । श्रुत्वा हृष्टो बालस्तस्यामेव रात्रावकस्माद्विशूचिकया मृतः सन् गोपालः तत्रैव पुरे धनसागरस्य श्रेष्ठिनः शीलवती प्रियाया गर्भे पुत्रत्रयोपरि वर्यस्वप्नसचितोऽवततार । ततः क्रमात् सा पुत्र प्रासूत प्रशस्तेऽहनि उच्चैः स्थितेषु ग्रहेषु, तेषां पुत्राणां नामानि क्रमान्मातापितुभ्यां दत्तानि । धनदत्तः १ धनदेवः २ धनचन्द्रः ३ धन्यः ४ । आद्यत्रयाणां पुत्राणां क्रमात् प्रिया अभूवन् । धनश्री १ धनदेवी २ धनचन्द्रा ३ । धन्यजन्मनि तन्नाले इलातले निधीयमाने निधानं निःसतं तेन धन्योऽयं नाम कृतं तस्य । धन्ये वर्द्धमाने क्रमात् श्रीष्टिगृहे दिने दिने लक्ष्मर्विवधे । समये । कलाचार्यपाधैं सकला धर्मकर्मकला ग्राहितो धन्यो मातापितृभ्याम् । धन्यस्यातीव गौरवे क्रियमाणे त्रयोऽपि सोदरा | ज्येष्ठाः पित्रोरग्रे प्रोचुः-एकोदरभवस्यास्य क्रियते किमादरोऽधिकोऽस्मभ्यम् । ततः पितरावूचतुः-गुणैरेष पूज्यः, यत:Kal" गुणा एव हि पूज्यन्ते, नतु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्प-मङ्गजस्त्यज्यते मलः ॥ १॥" भूयो बभाषिरे
ते भ्रातरः पितरं प्रति-परीक्षा क्रियतामिति । द्वात्रिंशद्रूपकांस्तेभ्यः पृथक् पृथग् दत्त्वा उक्तास्ते । पणायित्वा नौ
Jain Educate
For Private & Personal use only
www.jainelibrary.org