________________
॥ श्रीभरतेश्वर वृत्तिः।
श्रीधन्यमुनीश्वरचरित्रम्।
॥१४॥
सन्ति । तेन ममापि तद्देहि । मात्रोक्तं-पुत्र ! द्रव्यं विना कथं मया परमान्नादि तुभ्यं दास्यते । स पुत्रः प्राहमातः! यथा तथाऽऽनीय तन्मह्यं देहि । यतः- चोरा य चौल्लका विय, गंधी विज्जा य भट्टपाहुणया । वेसाधुत्तनरिंदा, परस्स पीडं न याणंति ॥१॥" ततस्तेन पुत्रेण रुदताऽत्यर्थ माता मार्गिता तदप्राप्नवती रुरोद | तां रुदन्तीं वीक्ष्य प्रातिवेश्मक्यस्तदुःखदुःखिता अप्राक्षुर्दुःखकारणम् । तया च पुत्रमनोरथः प्रोक्तः । ताभिराईचित्ताभिः प्रातिवेश्मिकाभिः पृथक् पृथक् क्षीरादिकं दत्तम् । मात्रा संस्कृत्य परमान्नं खंडादियुतं पुत्रस्थाले परिवेश्य कार्येण केनचिदन्यत्र गतम् । इतः सुकृतैराकृष्टस्तस्य गृहाङ्गणे मासक्षपणपारणे विहृत्यर्थमागान्मुनिः ।। दृष्ट्वा तं मुनिमनभ्रवृष्टिमिव रोमाञ्चकञ्चुकितबाल उत्थाय पाणिभ्यां पायसस्थालं गृहीत्वा प्रणम्य चावग्भगवन् ! इदं परमान्नं प्रासुकं विद्यते । कृपां कृत्वा ममोपरि गृहाण, येनाहं कृतार्थों भवामि । तच्छुद्धमाहारं मत्वा मुनिः पात्रमधारयत् । धन्यमन्योऽर्भकः सोऽपि परमान्नं तस्मै ददौ । तस्मात् पात्रदानतः स मनुष्यायबबन्ध । ततो माता समागात, रिक्तं स्थालं वीक्ष्य पुनः पुत्राय परमान्नं पर्यवेषयत् माता । बहु परमान्नं भक्षितं तेन । ततः स एव बालो बहिर्गतो वत्सरूपाणि गवेषयन् महर्षि प्रणम्य तस्याग्रे उपाविक्षत् । “दुष्प्रापं प्राप्य
as
Jain Education
For Private & Personal Use Only
Blww.jainelibrary.org