________________
| प्रियाश्चावन्तीसुकुमालस्य मृत्युखरूपमवगत्य दुःखिता अभूवन् । ततो गुरुभिरतिशयज्ञानिभिस्तत्राभ्येत्योक्तं-असौ ||
अवन्तीसुकुमालो नलिनीगुल्मविमाने ययौ । अत्रत्यं सुखमस्य न रोचते । ततो यथा तेन दीक्षा गृहीता, यथा | कर्म क्षिप्त्वा नलिनीगुल्मविमाने गतः । तथा गुरुभिरुक्तं-यत्रावन्तीसुकुमालः कर्म क्षिप्त्वा वर्ग गतः। तत्स्थाने | महाकालनाम्ना प्रासादं महान्तं मातापितरौ कारयामासतुः । श्रीपार्श्वनाथप्रतिमा स्थापयामासतुश्च । ततः सर्वाः । |प्रियास्ता वैराग्याद् दीक्षा ललुः ॥ इति अवन्तीसुकुमालकथासम्बन्धः समाप्तः ॥ ३१ ॥ पात्रे ददाति यो वित्तं, नित्यं शक्त्या सुभक्तितः । सौख्यानां भाजनं स स्या-द्यथा धन्योऽभवत् पुरा ॥१॥ पश्चात्तापं प्रकुर्वन्ति, दत्त्वा दानं मुनौ च ये । दुःखानां भाजनं ते स्यु-र्यथा धन्याग्रजाः क्षितौ ॥२॥ । तथाहि-प्रतिष्ठानाख्ये पुरे अभ्रङ्कषजिनचैत्यालङ्कृते जितशत्रुराजा राज्यं करोतिस्म न्यायाध्वना । य(इ)तः पूर्व || लज्जमानमेकं कुटुंबकं निःश्रीकं तत्र पुरे आजीविकाकृते समागमत् । तत्रैको बालको दाता, विनयी करुणापरः । वत्सरूपाणि लोकानां, चारयामास वृत्तितः॥१॥ करिमश्चिदुत्सवे उद्याने लोकान् परमान्नादिप्रवराहारभक्षणपरान् वीक्ष्य वत्सरूपाणि तत्र मुक्त्वा गृहेऽभ्येत्य च मातुरग्रे दारकः प्राह-मातरद्य लोकाः परमान्नं भक्षयन्तः
Jain EducationHHTinna
For Private
Personal use only
Tallww.jainelibrary.org