SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ १४६ ॥ जस्स वि जीहासयं हुज्जा ॥ १ ॥ " एवं विमृश्य गुरुपार्श्वे गत्वा गुरून् भत्ता नत्वाऽवन्तीसुकुमालो | जगौ भगवन्तो ! यूयं किं नलिनीगुल्म विमानादत्राधुना समायाताः । येन श्रीपूज्यैः तत्र त्र्यस्वरूपं कथ्यमानमस्ति । | गुरुभिरुक्तं - वयं तत्राधुना न गताः स्मः । किंतु श्रीसिद्धान्तोक्तमधुना श्रीनलिनीगुल्मविमानस्वरूपं गण्यमान| मस्ति । तस्मिन् नलिनीगुल्मविमाने सन्ति ये देवास्तेऽतीव सुखिनः सन्ति । अवन्तीसुकुमालः प्राह- अहं तु ततो | विमानादायुषः क्षयादत्रोत्पन्नोऽस्मि । तस्य विमानस्य सुखस्मरणादहमत्र स्थातुं न शक्तोऽस्मि । अधुना एता वध्वो | राक्षसी तुल्याः शोभन्ते ताभ्यो देवनारीभ्यः । तेनात्र क्षणं स्थातुं न शक्यते । तथा कुरु यथा मह्यं दीक्षां दत्त्वा | जन्म कृतार्थ करोमि । एता वध्वो व्याध्य इव मम भान्ति । तेन संयमं मह्यं ददत यूयम् । गुरुभिरुक्तं -माता| पितृबन्धूनामनुमति विना दक्षिां दातुं न शक्यतेऽस्माभिः । ततस्त्वरितं तत्र विमाने गन्तुकामेनावन्ती सुकुमालेन स्वयं संयमं गृहीत्वा गुरून्नत्वा श्मशानवने गत्वा कायोत्सर्गे स्थितम् । तदा पश्चाद्भवसम्बन्धिनी प्रिया शिवाभूता तत्रागता । अवन्तीसुकुमालं कायोत्सर्गे दृष्ट्वाऽतीव कोपाविष्टा तं तथा खंडशश्चकार शिवा, तदा शुभध्यानादवन्ती सुकुमारो मृत्वा तदानीं नलिनीगुल्मविमाने गतः । प्रातः मातापितरौ Jain Education International For Private & Personal Use Only श्रीअवन्तीसुकुमारचरित्रम् । ॥ १४६ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy