SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ व्याघ्रादिमर्त्यविहिता-नुपसर्गान बहून् दृढान् । प्राप्नोति चिन्तितं स्थान-मवन्तीसुकुमालवत् ॥१॥ ___ तथाहि-अन्येषुः श्रीसुहस्तिसूरयो भूवलयं प्रबोधयन्तो देवाधिदेववन्दनार्थमवन्तीं ययुः । तत्र भद्रः श्रेष्ठी वसतिस्म । तस्य भद्रा प्रिया । तयोर्धर्मकर्मकुर्वाणयोरन्येयुः सत्स्वप्नसूचितो नन्दनोऽभूत् । जन्मोत्सवः पित्रा || कारितः । कमात्तस्यावन्तीसुकुमालेति नाम पित्रा दत्तम् । मातापितृभ्यां धर्मकर्मशास्त्रं पाठितः पुत्रः । पुनरवसरे द्वात्रिंशन्महेभ्यानां पुत्रीद्वात्रिंशद् देवकुमारीसोदरा अवन्तीसुकुमालः परिणायितः पित्रा । अन्येास्तत्र भद्रमनुN) ज्ञाप्य भद्रदत्तोपाश्रये श्रीसुहस्तिसूरयः स्थिताः । तत्र प्रदोषे तेऽन्येद्यु-राचार्या मधुरया गिरा, गुणयन्तिस्म । नलिनी-गुल्माध्ययनमादरात् ॥१॥ ललन् भद्रात्मजोऽवन्ती-सुकुमालो निजालये। द्वात्रिंशतकामिनीजानि-रुन्निद्र-I.G स्तत्तदाऽशृणोत् ॥ २॥ अवन्तीसुकुमालोऽध्ययनं तद्गुरुभिर्गुण्यमानं श्रुत्वा दध्यौ-किमिदं गुरुभिरुच्यमानं मया , दृष्टमस्ति नलिनीगुल्मविमानमिति पुनः पुनरुहापोहपरोऽवन्तीसुकुमालो जातिस्मृतिवानभूत् । अहं प्राग्भवे । नलिनीगुल्मविमाने देवोऽभूवम् । नलिनीगुल्मविमानसुखात्रत्यशर्मणोर्मेरुसर्षपयोरिवान्तरं विद्यते । तेन यदि तत्सुखं । प्राप्यते तदा वरम् । यतः-" देवाणि देवलोए, जं च सुखं तं नरो सुभाणिओवि । न भणइ वाससएणवि, Jain EducatY oga For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy