________________
॥१४५॥
॥ श्रीभरते- प्रभुणोक्तं-द्विजानिर्वाणमभूत्तस्य । हरिस्तत्प्रभुवचः श्रुत्वा मूर्छामाप । पुनः पप्रच्छ कृष्ण:-कथं केवलज्ञानं जातम् ? श्रीगजश्वर वृत्तिः॥ प्रभुराह-द्विजसाहाय्यात, द्विजेन मस्तके अङ्गारभृता शकटी मुक्ता, तेन कर्मक्षयोऽभूत् । यदि स द्विजोऽधुना साहाय्यं ।
सुकुमाल
यतिपतिनाकरिष्यत् तस्य कर्मक्षयविषये तदा बहुकालेन कष्टात् कर्मक्षयोऽभविष्यत् । यथा अद्य त्वया मार्गे आगच्छता विप्र । चरित्रम्। एकामेकामिष्टिकां वहन् देवकुलिकार्थे दृष्टः। ततस्त्वया एकेष्टिका तत्र नीता । ततः सर्वेण परिवारणापि नीता बह्वी ततस्तस्य द्विजस्य प्रासादो निष्पन्नः । क्षणमात्रेण तस्य द्विजस्य इष्टिकावहनकार्य समाप्तं तव साहाय्यात् । तथा गजसुकुमालस्यापि तस्य द्विजस्य साहाय्यात् सर्वकर्मक्षयोऽभूत् । तस्योपरि त्वया कोपो नानेयः। कृष्णेन प्रोक्तं-किं नाम स हिजः ? । प्रभुणोक्तं-अद्य त्वां प्रतोल्यां प्रविशन्तं वीक्ष्याकस्माद्यस्योदरस्फोटनान्मृत्युर्भावी स एव ज्ञेयः ।
ततो मुकुन्देनाग्निसंस्कारः कृतः। प्रभुणा शोक उत्तारितः। ततो विष्णः प्रभुं नत्वा निरससार । स द्विजो वनादागच्छन् hte कृष्णमागच्छन्तं वीक्ष्य हृदयस्फोटनान्मृतः । तमकस्माद्विप्रं मृतं दृष्ट्वा विप्र उपलक्षितः । क्रमयोदौरिकां बन्धयित्वा
पुरीमध्ये भ्रामितो द्विजः। पटहो वादितश्च कृष्णेन । यो यतीनां हन्ता भविष्यति स एवं विगोप्यो मया । ततो देवक्या अनित्यतादिदर्शनैः प्रभुणा शोक उत्तारितः। ॥ इति क्षमायां गजसुकमालकथा समाप्ता ॥३०॥
Tell॥१४५.
Jain Educat
i
onal
For Private & Personel Use Only
Ollwww.jainelibrary.org