SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Jain Education | माता भ्रातृभ्यां पारणीयतः । अथ तस्मिन्नेव दिने श्रीनेमिनाथो बहिरुद्याने समवासार्षीत् । तदा श्रीसमुद्रविजयराजा | कृष्णश्च सपरिवारो धर्मोपदेशमाकर्णयितुं श्रीनेमिनाथपार्श्वे ययौ । भगवांस्तत्रेति धर्मोपदेशं ददातिस्म । “ निर्दन्तः | करटी हयो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुम सरा गतजलं छायाविहीनस्तरुः । भोज्यं निर्लवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं भुवनं न राजति तथा धर्म्म विना पौरुषम् ॥ १ ॥ इत्यादि धर्मोपदेशं श्रुत्वा गजसुकु| मालो वैराग्यवासितस्वान्तः पितरावापृच्छय भार्यायुग् दीक्षां जग्राह । यतः - " जह चयइ चक्कवट्टी, पवित्थरं तत्तियं मुहुत्तेण । न चयइ तहा अहन्नो, दुबुद्धी खप्परं दमओ ॥ १ ॥ ततः प्राप्तसंयमो गजसुकुमालो वैराग्य| वासितो नित्यं षष्ठाष्टमदशमादितपः कुर्वाणो नगराद्वहिः कायोत्सर्गे स्थितो ध्यानपरः परमात्मलीनोऽभूत् । अन्येद्युः | प्रभुमापृच्छय श्मशाने सायं प्रतिमया गजसुकुमालं दृष्ट्वा सोमशर्मणा द्विजेन ध्यातं - अयं पापी मदीयां पुत्रीं परिणीय | तत्कालमेवं चकार । ततः स द्विजाधमः क्रुद्धो गजसुकुमालमूर्द्धनि शकटीं मुक्त्वा [घटीकंठं च मुक्त्वा ] तदुपरि चितातो ज्वलदङ्गारकानानीय मुमोच । तैरङ्गारैर्गजसुकुमालस्य कर्मेन्धनानि सर्वाणि तथा दुग्धानि यथा क्षणमात्रात्केवलज्ञानमुत्पन्नं मुक्तिरप्यभूत् । अथ कृष्णः प्रभुं नन्तुं गतो गजसुकुमालमसमीक्ष्य व मे भ्राताऽस्ति इति प्रभुं पप्रच्छ । tional For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy