________________
॥ श्रीभरते- श्वर वृत्तिः॥ ॥१४४॥
श्रीगजसुकुमाल
यतीश्वर
चरित्रम्।
खामी-देवकि ! किं ताम्यसि, तव प्रागकृतं कर्मात्र फलितम् । त्वया सपत्न्याः सप्त रत्नानि हृतानि प्राग्भवे । तस्या रुदन्त्याः पुनरप्येकं रत्नं प्रपञ्चेन समर्पितम् । ततः प्रभुं प्रणम्य प्राक्तनं कर्म निन्दन्ती देवकी स्वगृहे गत्वा कृष्णास्याऽस्थात् । मातरं दुःखितां वीक्ष्य कृष्णाऽवग--मातः! किं तव दुःखमस्ति । देवक्यवग-पुत्र ! निष्फलं मम जीवितम् । त्वज्ज्येष्ठान सुलसा बाल्ये, यशोदा त्वामपालयत् । अपूर्यत न मे बाल-लालनस्य मनोरथः॥१॥ वत्स ! तस्मादहं पुत्रमीहे वाञ्छितपूर्तये । बाललालनहर्षो हि, देवानामपि दुर्लभः ॥१॥ विष्णुरावष्ट-मातः ! खेदो न कार्यस्त्वया । देवं वासवध्वजिनीपतिमाराध्य तव मनोरथः पूरयिष्यते मया । कृष्णेनाराधितो देवो हरिणेगमेषी । प्रकटीभूयावग़-देवक्याः पुत्रो भविष्यत्यष्टमः, परं प्राप्ततारुण्यः प्रव्रजिष्यति । ततः कियत्यपि काले गते कोऽपि । महर्द्धिदेवः स्वर्गाच्च्युत्वा सुस्वप्नसूचितो देवक्याः कुक्षाववतीर्णः । क्रमाद्देवकी पुत्रमसत । पुत्रजन्मोत्सवं कारयित्वा । वसुदेवो गजसुकुमालेतिनामादात् । ततो निरन्तरं देवकी स्तन्यपानदानोत्सङ्गारोपणादिना वर्धयामास । मातुभ्रतुश्च नेत्राणि प्रमोदयन् क्रमाजल्पन मनोहरं प्रमोदं ददानो गजसुकुमालो व्यवर्धत । प्राप्तयौवनो गजसुकुमारो द्रुममहीपतेः प्रभावत्याख्या कन्यां परिणिन्ये पितुराज्ञया । अथ सोमशर्माद्विजस्य पुत्री सोमाह्वामनिच्छन्नपि गजसुकुमालो ।
॥१४४॥
Jain Education
For Private & Personel Use Only
W
I
ww.jainelibrary.org