________________
राइयाः स्वरूपं जानन्नपि न प्रकटीचक्रे । स्वगृहस्वरूपं कस्याप्यो न कथ्यते । यतः-" स्वचिन्तितं कृतं छन्नं, गृहदुश्चरितं पुनः । वञ्चनं चापमानं च, मतिमान्न प्रकाशयेत् ॥१॥ राजोपदेशेन वंकचूलश्चौर्य मुक्त्वा । सन्मार्गगामी बभूव । भूपादेशादन्येद्युः कमपि दुर्दान्तं वैरिणं जित्वा प्रहारविधुरो बंकचूलः स्वपुरमागात् ।। चिकित्सा क्रियते वैद्यैस्तस्य । तस्मात् प्रहारघाताद्व्यथयाऽन्येऽपि रोगा जाताः । उपचारे बहुक्रियमाणेऽपि । तस्य गुणो नाभूत् प्रत्युत दिनं दिन प्रति क्षीयते शरीरं पथ्यं च न रोचते । ततस्तस्य रोगरफेटनार्थ राज्ञा पटहोदघोषणा कारिता । योऽमुं जीवयति तस्मै यथेष्टं राज्यादि ददामि । तदा केनाप्यत्रागत्य वैद्येन ( काक) मांसौषधं प्रोक्तम् । काकमांसं वैद्यैः कथ्यमानं वंकचूलः श्रुत्वा ऊचिवान्-अभक्ष्यं काकमांसं ततो नाहं भक्षयामि ।। ततो राज्ञा जिनदासारव्यश्राद्धं धर्मकर्ममित्रमाकारयितुं वंकचूलप्रबोधाय जनः प्रेषितः । यतः जीवस्य मित्रोक्तं दुर्लध्यं भवति । जिनदासो वंकचूलपार्श्वे समागात पप्रच्छ । बन्धो! वंकचूल ! तव देहे समाधिरस्ति ? । वंकचलो। जगौ-स्वागतं भवतो धर्मबन्धो ! समस्ति । देहे ममेदृशं जातम् । यतः-“रोगायत्तमिदं देह, कर्मायत्तं च जीवितम् । आराधना तवायत्ता. कुरु मित्र! यथोचितम् ॥१॥ अथोचे जिनदासोऽपि. तदाशयदिदृक्षया । काकमांसौषधं भुक्ष्व.
Jain Education
For Private & Personel Use Only
अ
w.jainelibrary.org