SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः॥ ॥ १४३ ॥ देहपाटवहेतवे ॥ २ ॥ साक्षेपं वेकचूलोऽथ, स्माह साहसिकाग्रणीः । कण्ठोपकण्ठविश्रान्त- जीवितोऽथ सतां वरः ॥ ३ ॥ देहचलाचलो रोगैः, समीरैरिव वारिदः । कः कृती तत्कृते कुर्यान्निजाभिग्रहखण्डनम् ॥ ४ ॥ प्रशंसापूर्वकं प्राह, शृणु मित्र ! यथोचितम् । एकत्वं सर्वथा जन्तोः, सर्वे भावा न निश्चलाः ॥ ५ ॥ तस्माद्देहे कुटुम्बे च, यौवने विभवे |भवे । जीविते च प्रतिबन्धमकृत्ये मा कृथा वृथा ॥ ६ ॥ प्रतिपद्य चतुःशरणं, परमेष्ठिपरायणः । उत्तमार्थविधिं कृत्वाऽच्युते चूलो गतः सुधीः ॥ ७ ॥" ॥ इति वकचूलकथा समाप्ता ॥ २९ ॥ उपसर्गान् सहमानो, जनः प्राणान्तकारकान् । लभते निर्वृतिं गज- सुकुमालयतीशवत् ॥ १ ॥ तथाहि-- गजसुकुमालकथां सुलसानागश्रेष्ठिकृष्णभ्रातृकथां विना न कथितुं शक्यते । तेनादौ तेषां सम्बधः प्रोच्यते । भद्दिलपुरे नागश्रेष्ठी बभूव, तस्य प्रिया सुलसा । वसुदेवपार्श्वात् कंसेन याचितानां सप्तानामपत्यानां मध्यात् षट् पुत्रा देवेन केनचित् नागपत्नीनिन्दुसुलसानाम्नीगृहे मुक्ताः । सुलसया वर्द्धिताः क्रमेण तान् देवकीसुतान् षडपि | द्वात्रिंशतं कन्याः परिणायिताः प्रत्येकम् । षडपि श्रीनेमिपार्श्वे प्रबुद्धा दीक्षां जगृहुः । सर्वे चरमशरीरिणो द्वाद| शाङ्गीभाजोऽभूवन् । स्वामिना सह द्वारिकां गताः ते षडपि यतयः षष्ठपारणेऽन्यदा युगलिनो भूत्वा त्रिधा द्वारका Jain Education International For Private & Personal Use Only श्रीवकचूलचरित्रम् | ॥ १४३ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy