SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ १४२ ॥ | माकारयितुं तत्रागता नर्तका गृहे । ततो बंक चूलभगिन्या ध्यातं - यदि बंकचलं ग्रामान्तरे गतं ज्ञास्यन्ति, ततो न सम्यक् |इत्यादि विमृश्य भ्रातृवेषं परिधाय तत्र गत्वोपविष्टा । नृत्यं विलोक्य दानं दत्त्वा स्वगृहे समेत्य भ्रातृपत्नीयुता पुष्कचूला | पुरुषवेषेण युता सुष्वाप । इतो वकचूलो गृहमागतः । स्वां प्रियामन्यपुरुषयुतां पल्यङ्के सुप्तां वीक्ष्य क्रोधारुणलोचनः | तयोर्द्वयोर्वधाय कृपाणमाकृष्य नियमस्मरणाच्च सप्तपदान्यपसृत्य यावत् प्रहारं दत्ते, तावत् संचलितखङ्गप्रहार| प्रतिशब्देन जागरिता संभ्रान्ता पुष्पचूला जीवतु भ्राता मम बँकचूल इत्यादि उच्चरन्ती उत्तस्थौ । ततः प्रणामपूर्वे | वकचलेन पुरुषवेषकारणं भगिनी पृष्टा रिपुनटानां समागमादि जगौ । ततो वंकचलो हृष्टो गुरुदतं नियमं प्रश| शंसेति-अहो ते गुरवो ज्ञानिनः । एकदा वेकचूलो वणिग्गृहे पितापुत्रयोर्लेखके कलहं वेश्यागृहे वेश्यां कुष्ठिनमपि कामयन्तीं वीक्ष्य कस्यापि भूपतेरन्तःपुरे भित्तिं विदार्यान्तः प्रविष्टो निशि राज्ञ्या हस्तो लग्नः । ततो राज्ञी तं कुमारं प्राह - मया सह भोगान् भुंक्ष्व बहूनि रत्नानि दास्यामि तुभ्यम् । वैकचलो गुरुदत्तं नियमं स्मरन् प्राह - त्वं मम | माता । ततस्तया विरक्तया अयमुपपतिरिति पूत्कृते राजपुरुषैर्निबध्य प्रातर्भूपपार्श्वे नीतः । राज्ञा पृष्टः स वंकचूलो यथानुभूतं रात्रिवृत्तान्तं जगौ । ततो राज्ञा कुट्यन्तस्थितेन रात्रिवृत्तान्तवेदिना तद्गुणरञ्जितेन स सामन्तीकृतः । Jain Education International For Private & Personal Use Only श्रीवकचूलचरित्रम् | ॥ १४२ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy