________________
Jain Educatio
वर्षे जम्बूस्वामिने सूरिपदं ददौ । विंशतितमे च वर्षे गच्छभारं धुरन्धरजम्बूस्वामिने वितीर्य मुक्ति पुरीं सुधर्मस्वामी | ययौ । ततः श्रजिम्बूगणधरः प्राप्त केवलज्ञानोऽनेक भव्याङ्गिनः प्रबोध्य प्रभवस्य सूरेर्गच्छभारं वितीर्य सूरिपददानपुरस्सरं श्रीवीरनिर्वाणात् वर्षचतुःषष्ठयां गतायां क्षीणाशेषकर्मा मुक्तिनगरीं ययौ । मनःपराऽवधी श्रेण्यौ, पुलाका| हारकौ शिवम् | कल्पत्रिसंयमा ज्ञानं, नासन जम्बूमुनेरनु ॥ १ ॥ यतः -मणपरमोहि पुलाए, आहारगखवगउवसमे | कप्पे | संजमतिय केवलिसिज्झणा य, जंबूमि वुछिन्ना ॥ २ ॥ घनागमैकप्रभवानि यस्य, माधुर्यधुर्याणि वचःफलानि । | निषेव्य भव्या भवतापमौ झन्, मुद्दे स जम्बूतरुरद्वितीयः ॥ ३ ॥ इति जम्बूस्वामिप्रभवस्वामिदीक्षाकथा समाप्ता ॥ २८ ॥ भवभीरुर्विमुञ्चेत, नाङ्गीकृतमभिग्रहम् । प्रतिकूल निपातेऽपि, बँकचूलकुमारवत् ॥ १ ॥
I
तथाहि - विराटदेशे पृथ्वीभालविभूषणे पेढालपुरमरित । श्रीचूलराज्ञः पृथ्वीं पालयतः पुष्पचलाभिधपुत्रोऽभूत् । पुष्पचूला पुत्री च । सम्प्राप्तयौवनः क्रमाद् द्यूतव्यसनी बभूव । चौर्य कुर्वाणः पुष्पचूलो वक्रगमनेन लोकान् वचयतिरम । तता लोकैर्वक चूल इति नाम दत्तं तस्य । ततोऽन्यायीति कृत्वा पित्रा निष्काशितः । यतः - " वैरवैश्वानरव्याधिवादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्द्धिताः ॥ १ ॥ द्यूतं सर्वापदां धाम, द्यूतं दीव्यन्ति
ational
For Private & Personal Use Only
Celwww.jainelibrary.org