SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Education णीकृत्य पञ्चम गणधरं श्रीसुधर्म्मस्वामिनं प्रणम्य जम्बूर्व्यजिज्ञपत् - संसारसागरोत्तार !, कर्णधार ! मुनीश्वर ! | मां सकुटुम्बं चारित्र - यानपात्रेण तारय ॥१॥ ततः स्वपाणिपद्मेन, गणधारिधुरन्धरः । स्वजनैरन्वितं जम्बू - कुमारं तमदीक्षयत् ॥२॥ दीक्षां पञ्चशतसप्तविंशतिश्राद्धानां दत्त्वा सुधर्मस्वामीति धर्मोपदेशं ददौ । तथाहि - एके जीवाः संयमं सिंहतुल्या भूत्वा गृह्णन्ति शृगाला इव पालयन्ति, एके जीवाः शृगाला इव भूत्वा संयमं गृह्णन्ति शृगाला इव पालयन्ति, एके पुनः जीवाः शृगालाइव संयमं गृह्णन्ति सिंहा इव पालयन्ति, एके पुनः जीवाः सिंहाइव शूरवृत्त्या संयमं । गृह्णन्ति सिंहा इव पालयन्ति । तेन भवद्भिश्चतुर्थभङ्गस्थैः संयमो निरतिचारः पालनीयस्तथा यथा करतलगता - मुक्तिरपि भवति । प्रमादो न करणीयः, प्रमादेन संसारे भ्रमणं भवति गृहीतसंयमानामपि । यतः - " चउदसपुत्री आहारगावि मणनाणी वीयरागा य । होति पमायपरवसा, तयणंतरमेव चउगइआ ॥ १ ॥ " ततो जम्बूर्विशेषतस्तपः | परोऽभूत् । तत्रैव तस्य मुनीशस्य खुतिः क्रियते यतिभिः । “नवणवई कंचणकोडीउ, जेणुझिया अट्ठ य बालियाओ ।। सो जंबूस्वामी पढमो मुणीणं, अपच्छिमो नंदउ केवलीणं ॥ १ ॥ " जम्बूस्वामिप्रभृतिभिः शिष्यैः कलितः कलमैरिवयूथनाथः श्रीसुधर्म्मस्वामी विहरन् चम्पानगर्या बहिरुद्याने समवासार्षीत् । तदा तदीयपादारविन्दं नंन्तुं धर्मं श्रोतुं A tional For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy