SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ IN दृष्टान्तोपनयश्चैवं । कर्मपरिणामतुल्यो भूपः, जीवः पुरोहिततुल्यः, सहजमित्राभो देहः, सर्वे बान्धवाः पर्वमित्र तुल्याः, प्रणाममित्रतुल्यो धर्मः । यतो जन्मान्तरे जीवेन सह धर्मों गच्छति । जीवस्य यः परत्रापि, श्रियं यच्छति वाञ्छिताम् । ज्ञातिदेहौ विहायाहं, धर्ममाराडुमुद्यतः ॥ १॥ अतः कारणादहं संयमश्रीरूपं धर्म मुक्तिसुखदातारमङ्गीकरिष्यामि । ततो जम्बकुमारस्य संवेगामृतसोदरैर्वचोभिः सर्वचौरयुतस्य प्रभवस्य चाष्टानां कन्यानां वैराग्येण मनोवाच्छितं जातम् । अष्टावपि कन्या ऊचुः--प्रमुखे सुखदैः स्वामिन् !, परिणामेऽतिदुःखदैः । इयत्कालं हहा कष्टं, विषयैर्वञ्चिता वयम् ॥ १॥ आपदा प्रथितः पन्थाः, इन्द्रियाणामसंयमः । तज्जयः ।। सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥२॥ यस्य हस्तौ च पादौ च, जिह्वा च सुनियन्त्रिता । इन्द्रियाणि सुगुप्तानि, रुष्टो राजा करोति किम् ॥३॥ तत्तद्विवाहसंबंधा-दन्धे तमसि मज्जनात् । उधृताः स्मरत्वया यहा, श्रेयसे सङ्गतं सताम् ॥४॥ आस्थितस्तत्वया एषः, श्रितोऽस्माभिरपि स्वयम् । सदैव नेतर्नेताऽसि, त्वमस्मान् शिवपत्तनम् ॥ ५॥ प्रभवोऽपि दध्यौ-धिगस्माकं ये वयं परधनहरणायोद्यताः स्मः । मया चौर्यद्यूतादिसेवाभिर्बहुपापमर्जितं तेन न ज्ञायते का गति|भविता यतः-" चौर्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, चिरं नरकवेदना ॥ १ ॥” असौ || Ifor in Education International For Private Personal Use Only nelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy