________________
॥ श्रीभरतेश्वर वृत्तिः॥ ॥ १३७ ॥
| यथा तया नागश्रिया भूपो विप्लावितः । तथा त्वमपि किं कथाभिर्विप्लावयसि माम् ॥ १३ ॥ जम्बूः प्राह-लालताङ्गवदहं न भोगसुखे तथाऽऽसक्तोऽस्मि । तथाहि - कन्दर्पकोशपुरे शतायुधो राजा राज्यं करोति । तस्य लीलावती | प्रिया । सा कदाचित् सर्वाभरणभूषिता गवाक्षोपरि उपविष्टा ललिताङ्गाख्यं नरं तुरगारूढं मनोभवावतारं गच्छन्तमा - | लोक्य लीलावती पञ्चबाणबाणैस्ताडिता । तदा च ललिताङ्गस्तां वीक्ष्य पञ्चेषुबाणैस्ताडितः । भूपपत्नी दुर्लभा भवतीति ध्यात्वा ललिताङ्गकुमारः स्वगृहे गतः । राजपत्नी कामशरपीडिता भूतार्ता इवाऽभवत् । दास्या स्वामिन्या मनोऽभिप्रायो ज्ञातः कथितं चानेष्यते सोऽत्र मया । सा दासी समुद्रप्रियेभ्यनन्दनं ललिताङ्गं ज्ञात्वा तत्र रहोऽभ्येत्योवाच || | मत्स्वामिनी त्वामिच्छति भोगाय । सोऽवग्- पुराऽपि मम तस्या इच्छा विद्यते । यदाऽवसरो भवति तदा प्रोक्तव्यमह - | मागमिष्यामि । दासी स्वामिन्यग्रे प्राह - राजा तु स्तोकं गृहद्वारान्निःसरति । ततश्चैकदाऽवसरं प्राप्य यावद्दासी तं ललिताङ्गं कृतस्फारशृङ्गारमानयामास स्वामिनीपार्श्वे तावद्राजापि तत्रागतः । ततस्तया बिभ्यत्या दासीपार्श्वात् संचाराभिधे खाले क्षिप्तः प्रोक्तं च त्वया न जल्पनीयम् । राजाऽगतोऽस्ति, यदि ज्ञास्यति भूपस्त्वामत्रागतं तदा शूलाभिरोपणात् | हनिष्यति । ततः स ललिताङ्गकुमारो बिभ्यत् संलीनाङ्गोऽस्थात् । ततस्तत्रस्थस्य तस्यानुकम्पया राज्ञी भोजनं दत्ते ।
Jain Education fel!
For Private & Personal Use Only
श्री जम्बू
महर्षेः
चरित्रम् |
॥ १३७ ॥
w.jainelibrary.org