________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ १३६ ॥
नलिकायन्त्रेणाधः कृतः । तत्र दृढं स्वचरणग्रहं पतनभयात् कुर्वन् आत्मानमबद्धमपि बद्धं मन्यमानो नचात्पतति । अहं बोधाऽसिना छिन्नमोहपाशः स्वेच्छयोत्पत्य गच्छामि तत्पक्षितुल्यो नास्मि ॥ १२ ॥ अथवाऽत्रेयं कथा च वाच्या- विन्ध्याद्रौ सरोवरं पयःपूर्णमभूत् । तस्मिन् जलाशये कश्चित् कमठः स्थितः पुत्रपौत्रादियुग् । कदाचित् शेवालपटला पसरणात् पूर्णेन्दुमाकाशे विलोक्य रात्रौ मुमुदे । ततश्चिन्तितं तेन - कुटुम्बस्य दर्शयिष्यामि । | ततः कच्छपः पयोमूले गतः स्वकुटुम्बपार्श्वे । कर्मों यावत् स्वकुटुम्बं तत्रानिनाय तावतच्छिद्रं गतम् । ततो भ्रामं भ्रामं चलच्चक्षुर्विलोकयन् पूर्णेन्दुं नापश्यत् । तद्वदिमं जिनधर्म संयमप्राप्तिस्वरूपं गुरुसामग्री च प्राप्य न त्यक्ष्यामि ॥ १२ ॥
जयश्री जगौ - नागश्रीरिव मां किं विप्रतारयसि । तथाहि पद्मपुरे केलिप्रियो राजा राज्यं करोतिस्म । दिनं प्रति नवां नवां कथां वारकेण लोकमुखात् शृणोति । अथ कस्यचिद् द्विजस्य वारक आगतः । तस्य मौर्य | विद्यते । ततो द्विजोऽचिन्तयत् किं कथ्यते मया क्षोणिपतेरग्रे यदि नव्या कथा न कथयिष्यते तदा दुष्टो भूपो मां कारागृहे क्षेप्स्यति पितरं चिन्तापतितं कालमुखमालोक्य दौहित्र्या कुमार्योक्तं-त्वं चिन्तां मा कुरु । अहं | कथां कथयिष्ये । ततः सा कन्या राजपार्श्वे गत्वाऽवग्- राजन्नद्याहं कथां कथयिष्यामि स्वसोदरार्थम् । राजाऽवग़
Jain Education International
For Private & Personal Use Only
श्री जम्बू
चरित्रम् |
॥ १३६ ॥
www.jainelibrary.org