SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ चारित्ररूपान्मार्गादन्यत्र मार्गे सर्वथाऽनभिज्ञोऽस्मि । अथ कनकश्रीराह-हेमपुरात् पुरा द्वौ बान्धवौ देशान्तरं । प्रति चेलतुः । मार्गे गच्छन्तौ तौ वापि स्थाने पञ्चशिखरं वल्मीकं ददृशतुः । तस्य वल्मीकस्य एकस्मिन् श खनिते पयो निस्ससार । तत्पयः पीत्वा तौ मुदितौ बभूवतुः । अथ ज्यायसा लघुरभिदधे-द्वितीयं शृङ्गं विलोक्यते । ततस्तस्मिन् शृङ्गे विलोकिते द्रव्यं तृतीये रूप्यं चतुर्थे स्वर्ण निर्गतं, पञ्चमे शृङ्गे खन्यमाने ज्यायसा भ्रात्रोक्तं, । अतिलोभो न क्रियते । यतः-" मूलं मोहविषद्रुमस्य सुकृताम्भाराशिकुम्भोद्भवः, क्रोधानेररणिः प्रतापतरणिप्रच्छादने तायदः । क्रीडासद्म कलेविवेकशशिनः स्वर्भानुरापन्नदी-सिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम | an१॥ महीयसापि लाभेन, लोभो न परिभूयते । मात्रा समधिकः कुत्र, मात्राहीनेन जीयते ॥२॥" एकं शृङ्गं तिष्ठतु । ततः स भ्रात्रा वारितोऽपि लघुभ्राता लोभार्थी पञ्चमं शृङ्ग खनति यावत्तावत् ज्यायान् भ्राता पश्चाद् व्यावत्योपविष्टः पञ्चमे शड़े खनिते दृग्विषाहिना निर्गतेन स भरमांकृतः चिरकालं दुःखी जातः । तथाऽतिलोभात् त्वमपि मुक्तिसुखं वाञ्छन् कृषिकलघुभ्रातृतुल्यतां मा गच्छ ॥ ११॥ जाबूकुमारोऽवग-प्रिये शुकनिकरोपमो न भविष्यामि ।। तथाहि-कस्मिश्चिंद्रामे लोकैः क्षेत्ररक्षार्थ नलिकयन्त्राणि मण्डितानि । अन्यदा तत्रोपविष्टः शकनिकरः । भ्रमता च Jain Education For Private & Personel Use Only Uw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy