________________
Jain Education
यक्षाग्रे रहसि प्रोक्तं - मदीयमेकं नेत्रं त्वं लाहि । ततो यक्षेणैकं नेत्रं तस्या गृहीतम् । ततो बुद्धिरपि यक्षपार्श्वे याचते स्म सिद्धयै त्वया यदायि तद्विगुणं मह्यं देहि । ततो यक्षवरात बुद्धिरन्धीभूता । नोऽकारणरुषां सङ्ख्या, सङ्ख्याताः कारणाः क्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥१ ॥ तं नत्थि घरं तं नत्थि, राउलं देउलं पि तं नत्थि जत्थ | अकारण कुविया दो तिन्नि खला न दीसंति ॥२॥ ईर्ष्यया लभते जन्तु - रन्धत्वं परवश्यताम् । इहैवामुत्र नरकादि, पुनर्दुःखम| नुत्तरम् ॥३॥ एवं पते ! त्वमपि अधिकाधिकामृद्धिं वाञ्छन् अनर्थे पर्तिष्यसि ॥८॥ अथ जम्बूः प्राह हे कान्ते ! नाहमन्यथागामी | जात्यश्व इव भविष्यामि, तथाहि देवानां प्रिये एनां कथां शृणु वसन्तपुरे जितशत्रुनृपो न्यायी धर्म्मवान् राज्यं कुरुते स्म । | अन्यदा राजाऽवग्- कोऽस्ति मे राज्ये यो वाजिपरीक्षां सम्यग् जानाति । ततोऽश्वविद्याविशारदाः बहुषु घोटकेषु एकं | जात्यश्वमानीय जगुः । यस्य राज्येऽयं वाहो वर्तते तस्य राज्यं सर्वथा वर्धते । भूपाः नमन्ति तं परैर्न जीयते स राजा । राजा तं घोटकं पृथग् कृत्वा दध्यौ । जिनदासस्यायं घोटको वर्द्धनायायते तदा वरम् । स तु निलोभी दया| वानस्ति । ततो राज्ञा जिनदासायार्पितः सोऽश्वः । ततस्तं वाजिनं नृपदत्तं पालनाय प्राप्य वर्यो भूमिं चतुःशालिकां च कारयित्वा तत्र जिनदत्तो मुमोच । वर्या पानादिदानेन जिनदासस्तं वर्द्धयामास । यथा यथा घोटको वर्द्धतेस्म, तथा
For Private & Personal Use Only
www.jainelibrary.org