SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरतेश्वर वृत्तिः ॥ ॥१३४॥ कपिर्मृत्युमाप । स वानरोऽक्षिप्तपदः पूर्व वदनं चेदाकृषत् तदा मरणं नाभविष्यत्तस्य । ततो भवादृशां नारीणां । श्रीजम्बू कुमारस्य वाञ्छया संसारसुखशिलाजतुनि न मज्जामि ८॥ अथ नभसेनाऽऽचष्ट-अधिकेन लोभेन त्वं बुद्धिस्त्री इव ।। चरित्रम्। हास्यतामनर्थ च प्राप्स्यास । तथाहि-नन्दिग्रामे सिद्धिबुद्धिनाम्न्यौ वृद्धस्त्रियौ वसतः स्म । एकस्तत्र भोलिको नाम यक्षो मनोऽभीष्टप्रदाता बहिस्तिष्ठतिस्म । सिद्धिः सदा सत्पुष्पपूजादिभिर्यक्षं तथाऽऽरराध यथा दीनारं द्वयं प्रतिदिन तस्यै अदात् । ततः सिद्धिः सा काष्टपात्राणि मुक्त्वा हेमपात्रे भुङ्के, महासौधं तया क्रमात् कारितम् । यक्षप्रसादातां सिद्धिं लक्ष्मीवती वीक्ष्य प्रीत्या रहसि बुद्धिः पप्रच्छ । कुलक्रमागतं स्वामी, दारिद्र्यं तावदावयोः । कुतो विभवपाथोधिः, जलदेवीव वर्तसे ॥ १॥ सा सिद्धिराचष्ट-भोलिको यक्ष आराधितः सन् प्रतिदिनं दीनारद्वयं दत्ते मह्यम् । एतदाकर्ण्य बुद्धिरपि भक्तिभरात्तं यक्षमारराध । ततो यक्षोऽवग्-भो बुद्धे ! किं तव विलोक्यते ।। बुद्धिराह-सिद्धिर्यल्लभते तव पार्थात्तद्विगुणं मह्यं देहि । ततो बुद्धयै चतुरो दीनारान् दत्ते । बुद्धियाचितं ज्ञात्वा सिद्धिरपि ततो द्विगुणं मार्गयामास दीनारान् । ततो बुद्धिरपि द्विगुणं याचतेस्म । ततः सिद्धया चिन्तितमिदम् ।। असौ द्विगुणं सदा याचते मम स्पर्धया । ततस्तथा कुर्वे यथा स्पर्धाकृतं फलं लभतेऽसौ बुद्धिः । ततः सिद्ध्या । ॥१३४॥ Jain Educatio n al For Private Personal Use Only Cliw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy