________________
दध्यः। सदाऽयं शंखको न वाद्यते । ततः सम्यग विलोकितं चौरैः, ज्ञातश्च स शंखवादकः । ततो वयमनेन वाहिताः पूर्वमितिवदन्तस्तत्रागत्य तं शंखवादकं बद्ध्वा दृढं मुष्टिभिस्ताडयामासुस्तथा, यथाऽचेतनाभूय पतितः शंखो भग्नः तद्धनं सर्वमपहतम् । एवं त्वमपि प्रिय ! लोभेनाधिकां श्रियं वाञ्छन् शंखवादक इव दुःखीभवसीति १॥ | अथ जम्बूस्तां प्रियां प्रति प्राह-कपिवदहं मुमघुर्नास्मि । तथाहि-विन्ध्याभिधधराधरे अनेकश्वापदसंकुले कोऽपि । वानरः प्रियाभिः सह क्रीडां कुर्वाणोऽनुवेलं विद्यते। कपिः कोऽपि बलिष्ठंमन्यस्तत्प्रियाभिः सह भयोज्झितो रमते।क्रमाद्वानरी| तमुपपतिमङ्गीकृत्य रमते।स्वपतिं तृणमपि न मन्यते वानरी । पार्श्वस्था वानर्योऽवोचन्-अयं वृद्धो वानरोऽभू योग्योऽयमेवं विमृश्य सर्वा अपि वानों युववानरं श्रिताः । यतः-" वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरःसारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः। निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाजनोऽभिरमते नो कस्य को वल्लभः॥१॥" वृद्धो वानरो यूना समं युद्धं कुरुते । ततो यूना वानरेण स्त्रीदृष्टिपुष्टेन वृद्धो । वानरो भन्नः। ततो नश्यत्कपिस्तृषाक्रान्तो जलार्थी शिलाजतुनि जलभ्रान्त्या मुखमक्षिपत् यावत्तावद्वानरवानौं पृष्टावागतौ । वानरो मुखं क्रष्टुमग्रेतनौ पादौ प्रथमं क्षिप्त्वा पश्चात् पश्चातनावपि पादौ चिक्षेप वानरः । ततः कीलितसर्वाङ्गः
Jain EducatioM
tional
For Private & Personal Use Only
liww.jainelibrary.org