SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ ॥१३३॥ कुमारस्य चरित्रम्। श्रीजम्बूमस्याः स्त्रिया दृश्यते । ततो विद्युन्माली लज्जितोऽधोमुखोऽभूत, पुनर्वर्ष मार्गितं विद्यासाधनाय वर्षत्रयान्ते पुनरायातो भ्राता तथैव मोहे मग्नं भ्रातरं ददर्श मेघरथः । ततो भ्रातरं म्लेछकुले मग्नं वीक्ष्य मेघरथः पश्चात् स्वगृहं गतः ।। मेघरथो निःस्पृहो निष्कामी भूत्वा सद्यो विद्यापारगतोऽभूत् । विद्युन्माली तु म्लेच्छकुले तिष्ठन् क्रमात्तया चाण्डाल्या किङ्करीकृतो निःशत नीचमनीचं चादेशं करोति स्म । तादृशे दुर्गन्धे गृहे तिष्ठन् दुःख्यभूत् । पुनर्मृत्वा विद्युन्माली नरके दुःखभागभूत् । एवमहं विद्युन्मालिवत् संसारे मनो न भविष्यामि । तथा त्वमपि संसारसुखे रक्ता मा भव ॥ ६॥ कनकसेनाऽवग्-मदीयं वचो मानय । शंखधमक इव लोभवान् मा भव । तथाहि-पुरा शालिग्रामे कणकूटाभिधः | कौटुम्बी वसति । कणकूटः कस्यचित् कौटुबिकस्य क्षेत्ररक्षकोऽभवत् । क्षेत्रस्थः स सदा शंखनादेन सस्यभक्षकान् जीवान् दूरं नाशयामास । एकदा शंखयुतो निशामुखे ग्रामस्य क्षेत्ररक्षायै ययौ । निशीथसमये कस्यचिद् ग्रामस्य गोधनं भूरि अपहृत्य चलमानास्तस्य क्षेत्रस्य समीपे चौरा आययुः । अत्रान्तरे तेन क्षेत्ररक्षकेण कम्बुः पूरितो हेलया। तदा ते चौराः शंखशब्दमाकर्ण्य पृष्टागतवाहरक्षकशङ्कया गोधनं मुक्त्वा दूरतो भीता नेशुः । तत् चौरमुक्तं गोधनं । ॥ १३३ ॥ ज्ञात्वा प्राप्तगोधनः प्रगे स्वसद्मान्तः सदा शंखं पूरयामास एकदा पुनस्तत्रागताश्चौरास्तथैव शंखमापूर्यमाणं श्रुत्वा । JainEducation For Private Personel Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy