________________
न भवितव्यं विद्युन्मालिखग इव । तथाहि-वेताढ्याद्रौ उत्तरश्रोणविभूषणे गगनवल्लभपुरे मेघरथविद्युन्मालिनामानौ । हौ सहोदरौ विद्याधरावभूताम् । तावन्येधुर्मातङ्गीविद्या साधयितुं वसन्तपुरे गतौ । सा मातङ्गीपाणिग्रहणं विना न सिध्यति । मातङ्गयाः परिचर्या कुर्वत्या एव विद्या सिध्यति । इति ज्ञात्वा चाण्डालवर्षे कृत्वा चाण्डालपाटके गतौ । चाण्डालानां सेवनं चक्रतुस्तौ । ततस्तैश्चाण्डालैः पृष्टं-युवां कुत आगतौ किमर्थम् ? आवां म्लेच्छराजपुत्रौ । साकेतपुरात् पित्रा निराकृतावत्रागतौ । ततस्ताभ्यां तथा प्रीणिताश्चाण्डालाः, यथा तैरात्मीये द्वे पुत्र्यौ काणद-IN |न्तुरे तौ परिणायितौ । ब्रह्मचर्यपरो मेघरथस्तस्याः पत्न्याः पार्थात् सर्वी परिचर्या कारयन् मातङ्गीविद्यां वर्षेण || साधयामास । विद्युन्माली तु तया प्रियया वशीकृतो भोगासक्तोऽभूत् । तया गर्भो दधे । मेघरथेन पृष्टं-भो भ्रातस्तव विद्या सिद्धा न वा । विद्युन्माली प्राह खं चेष्टितम् । मेघरथोऽवगु-मूढ ! त्वया किमात्मा म्लेच्छस्त्रीसङ्गेन विगोपितः । विद्युन्माली जगौ-एकवारं सदाचार !, गुणाधार! मनोरम ! । अपराधो मदीयोऽयं, क्षम्यतां भवताऽधुना | ॥१॥ पुनर्भो भ्रातस्त्वया प्रीतिपरेण वर्षप्रान्तेऽहं वाच्यः। एवमारित्वति।क्षम्यतामिदानी पुनर्निर्जितमन्मथः सद्विद्यां साधयिष्यामि । पुनर्वर्षान्ते मेघरथस्तत्रागात् भ्रातप्रीत्या । पुनर्गौण युतां चाण्डालीं वीक्ष्य मेघरथा पप्रच्छ-किमिद
For Private Personel Use Only
khaww.jainelibrary.org