SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरतेश्वर वृत्ति ॥१३॥ अथ जम्बूः प्राह-बहून् भोगान् भुञ्जानस्तृप्तो न भवत्यङ्गारकारक इव । तथाहि-चंद्रपुरे चन्द्रनामाऽङ्गार- श्राजम्बूकारको ग्रीष्मसमये वारि समादायाटव्यामङ्गारान् कर्तुं ययौ । अङ्गारान् कुर्वतस्तस्य रात्रौ जलं त्रुटितं तृषाऽत्यन्तं चरत्रमा जालना तालुशोषः समजनि । रात्रौ सुप्तस्तृषया बाधितो वापीकूपतडागनदीहृदादिजलाशयस्थं पानीयं सर्व पीत्वा कापि मरुस्थलीकूपेऽङ्गारकारकः समागात् । ततस्तषयाऽत्यन्तपीडितो वटोपान्तस्थो वरत्राबद्धपूलकेन बिन्दुमात्रं तज्जलमाकृष्य |जिह्वाग्रे लिहानो न तृप्तोऽङ्गारकारकः। एवं जीवाः सर्वे स्तन्यपानस्त्रीभोगवर्यवस्त्राभरणपरिधानादिसुखमनुभवन्तो न तृप्ताः स्युः, तथा नाहमतृप्तोऽस्मि सांसारिकसुखेषु ४॥ अथ पद्मसेनोवाच-हे नाथ मुक्तयर्थी त्वमैहिकां प्राप्तां श्रियं विसृजन् । गोमायुरिवात्यन्तमुभयभ्रष्टतां मा भज । तथाहि कस्यांश्चिदटव्यां शृगाल एकः पिशितखंडं प्राप, तमादाय सरित्तीरे | गतः । तं मांसं भोक्तुंकामो नदीवीच्या बहिः क्षिप्तं मीनं दृष्ट्वा लौल्याज्जिघृक्षुरभूत मांसखंडमधो मुक्त्वा शृगालो || यावन्मीनं गृहीतुमधावत् तावन्मीनः पयोमध्ये प्रविष्टः । मांसखंडं शकुनिको गृहीत्वाऽऽकाशे गतः । तत; शृगाल उभय भ्रष्टो भत्वा पश्चात्तापं दधौ चित्ते । एवं त्वमिमां श्रियमज्झन् पारत्रिकीमीहमान उभयभ्रष्टो जम्बुक इव भविष्यसि अथ पद्मसेनां प्रति जम्बूः प्राह --नाहं विद्युन्मालिविद्याभूदिव रागग्रहिलो भविष्यामि । त्वयाऽपि रागग्रहिलया १३२॥ Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy