________________
कृतार्थीकृत्य तं वानरस्वामिनं धनेन राजा पट्टराज्ञी पप्रच्छ कोऽयं वानरः कथं रुरोदायं च । राज्ञी जगौ-देव ! नंदनवने । पद्महदे वानरवानरीयुग्मं प्रीतिमन्दिरं पुरासीत् । अन्यदा तहानरवानरीयुग्मं ग्रीष्मतों तापाक्रान्तं वृक्षशाखायाः जले | झम्पां ददौ । जले पतितं सन्नरनारीयुग्ममभूत् । ततो वानरोऽवग्-प्रिये! मानुषत्वे क्लेशेन निर्वाहो भवति कृष्यादिभिः। पशुत्वे शीतातपादिना कष्टं भवति। तेन देवत्वमाप्यते तदा वरं तत्र मनश्चिन्तितो भोगो भवति । तेनैकशः पुनझम्पा दीयते जलमध्ये देवत्वं जायते आवयोः । स्त्रिया प्रोक्तं-आत्मनोरधुना मनुष्यत्वेन शृतं, अधिको लोभो न क्रियते।। यतः-" लोभमूलानि पापानि, रसमलाश्च व्याधयः । स्नेहमूलानि दुःखानि, त्रीणि त्यक्त्वा सुखी भव ॥१॥ ततः स्त्रिया वार्यमाणोऽपि मनुजो झम्पां ददौ । पुनरपि वानरोऽभूत । ततः पुनः झम्पापाते कृतेऽपि तस्य वानरत्वं
न गतम् । सा वानरी स्त्रीभूता त्वया लब्धा वने सा ज्ञातव्या । असौ वानरोऽस्य हस्ते चटितोऽभूत् । मामधुना Pal दृष्ट्वा स्वकर्म निन्दन् रुरोद वानरः । मयाऽपि स एव वानर उपलक्षितः । ततः सा स्त्री चिरं कालं धर्म प्रपाल्य । सुखभागिन्यभूत् । वानरश्चिरं दुःख्यभूत् । एवं स्वामिस्त्वमपि ईदृशकन्यादिभोगसुखं प्राप्य पुनर्मुक्तिकन्यासुखाकांक्षी
वदःखी भविष्यसि । तेनैताः स्त्रियस्त्वया देवकन्यातुल्या न त्यज्यन्ते । इति पद्मश्रीकथा ।
Jain Education
For Private
Personal Use Only