SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १३१ ॥ Jain Education | ऽनुरागवान् । कथं प्रिये ! न मज्जामि, सोऽहं मोहाम्बुधाविव ॥ १ ॥” इति द्वितीया कथा जम्बूस्वाम्युक्ता ॥ २ ॥ अथ पद्मश्रीरभाषिष्ट - वानर इवोभयतो भ्रश्यसि । तथाहि - हस्तिनागपुरस्वामी अरिकेसरी राजा अनेकभूपालैः सहि-तोऽटव्यां जगाम । वनाद्दनं भ्रमन् राजा वर्षत्सु जलदेषु क्वचिन्निकुञ्जे स्थित्वाऽचलत् । कस्मिंश्चिज्जलाशयोपान्तस्थवने | काञ्चिन्नारीं देवकुमारी सन्निभामालोक्य हृष्टो ललौ । तां स्त्रियं विशिष्टवस्त्राभरणभूषितां कृत्वा राजा सुमहोत्सवपूर्व पुरमध्ये समागात् । पट्टराज्ञीं तां कन्यां चकार । भूपस्तया कन्यया सह भोगान् भुञ्जानो वासत्र इवेन्द्राण्याऽन्येद्युर्यावतस्त्र| गृहमध्यस्थाचित्रशालायामुपाविशत् तावत् कश्चित् पुमान् ग्रामे ग्रामे पुरे पुरे लोकान् रञ्जयन् वानरनर्तन कारकस्तत्रागात् । वानरस्तदा नारीं नृपोत्सङ्गसङ्गिनीमालोक्य नर्तितुं नोत्सहते । तदा तेन पुंसा बहुशस्ताडितो वानरो नृपप्रियामुखाम्भोजदत्तढग् भृशं रोदिति स्म । विलक्षे भिक्षुके तं वानरमनृत्यन्तं रुदन्तं च वीक्ष्य नृपपत्न्यत्रम्-अये वानर ! मया निषिद्ध एवं सदा लोभेन नामंस्थाः इदानीं मा रुदिहि । यतः - " गते शोको न कर्तव्यो, भविष्यं न च चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ १ ॥ खेदं मुक्त्वाऽधुना सद्य, स्त्वं नृत्यं कुरु वानर ! । यादृशं क्रियते कर्म, तादृगाप्नोति मानवः ॥ २ ॥ " इत्यादिना बोधितो वानरो नर्तनेनाद्भूतेन निर्व्याजं राजानं रञ्जयायास । 3 For Private & Personal Use Only श्री जम्बूमुनिशकचरित्रम् ॥ १३१ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy