________________
शक्राग्रहादेका मुष्टिः स्थिता प्रभोर्मस्तके । वासवेन कोलाहले निषिध्यमाने प्रभुनमस्कारोच्चारणपूर्व संयम जग्राह ।। हातदा नाभेयस्य चतुर्थ ज्ञानं समुत्पन्नम् । यतः "काऊण नमुक्कार, सिद्धाणमभिग्गहं त सो गिण्डे । सव्वं मेऽकरणिजं.
पावं ति चरित्रमारुढो ॥ १॥ तिहि नाणेहि समग्गा, तित्थयरा जाव हुंति गिहवासे । पडिवन्नंमि चरित्ते, चउनाणी जाव छउमत्था ॥२॥ तदा भरताद्यैर्बहुभिर्भूपैर्निषिध्यमाना अपि कच्छमहाकच्छादयश्चत्वारो नृपसहस्राः प्रभुणा समं संयम ललुः । इन्द्रादिषु यथास्थानं गतेषु प्रभुरन्यत्र विजहार । प्रभुः पूर्वभवोपार्जिताशुभकर्मवशाद् भिक्षामलभानो । वर्ष यावन्निराहारो विहृत्य गजपुरं समाजगाम । तत्र बाहुबलिपुत्रः सोमयशाः, तस्य पुत्रः श्रेयांसस्तत्साहाय्यात् । शत्रुभिराक्रांतो महाभटो जयीजात इति स्वप्नमपश्यत् सोमयशा नृपः । रविमण्डलतः श्रस्तः करोघो घटितः पुनः श्रीश्रेयांसकुमारेण स्वग्नं श्रेष्ठीति लब्धवान् २। पुनः श्रेयांसकुमारेण स्वप्नो दृष्टः मेरुर्मलिनो जातः सो मया पायसेन उज्वलीकृतः३। प्रातरतः शुभं भावि श्रेयांसस्योदयो महान् कोऽपीति मन्त्रयित्वा ते स्वस्ववेश्म त्रयोऽप्यगुः ॥३॥ लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गवाक्षतोऽधाव-धुवराजा प्रभुं प्रति ॥ ४ ॥ प्रभोर्दर्शनात्तदा जातिस्मृति प्राप्य पश्चान्नवभवं खं गृहीतसंयमं ज्ञात्वा प्रभुं चान्नग्रहणतत्परं ज्ञात्वा यावत् प्रासुकान्नं दातुकामः
Jan Education
For Private
Personel Use Only
I
w
.jainelibrary.org