________________
॥ श्रीभरते-|| श्वरवृत्तिः।
॥१३०॥
पठितः । श्रेष्ठी प्राह-यत् त्वया प्रोक्तं तत्र कः प्रत्ययः १ ततः मुनिः प्राह-अन्तर्गृह शुनी नीता, जातजाति
वा महार्षस्मृतिः सती । रत्नजातं तदेषा तन्नि-खातं दर्शयिष्यति ॥१॥ इत्युदित्वा मुनौ याते तथा कृते श्रीष्ठिना | शुन्या निधानं दर्शितम् । ततो महेश्वरदतः पिण्डदानमनर्थकं मत्वा साधूक्तं जैनधर्म प्रपेदे । श्रुत्वैतत् कथानकं । प्रबुद्धः प्रभवः पञ्चशतचौरयुतो वैराग्यवासितचित्तोऽजनि । ततस्तदानीं समुद्रश्रीः जम्बूकुमारं प्रति प्राहनाथ ! पते ! कान्त ! वल्लभ ! बककाएक इव त्वमेवं भोगान् प्राप्तांस्त्यजन् पश्चात्तापभाजनं माभूः ।। तथाहि-पुरा सुसीमाढे ग्रामे बकनामा कृषीवलोऽभूत् । वर्षाकालेऽन्यदा कङ्गुकोद्रवीणकबरंट्टिकाचपलमुद्गादीनि धान्यानि क्षेत्रे उप्त्वा कार्यवशात् मालवके पुत्रीगृहे गतः कृषीवल. । तदा पुत्र्या गुडमण्डकादीनि भोजितः पिताऽवग्-एते गुडादयः कथं निष्पद्यन्ते ? ततः पुत्र्यादिस्वजनैः कूपखनादिगोधूमेक्ष्वारोपणादिवृत्तान्तः कथितः । ततो गोधूमबीजमादाय पश्चात् स्वगृहे त्वरितमागत्य प्रागुप्तानि सस्यान्युत्पाटयितुं लग्नः कृषीवलः स्वजनैरुक्तमेव । कथं निष्पन्नं सस्यमुत्पाटयसि ? बकोऽवग्-यूयं मौनं कुरुथ । अत्र क्षेत्रे गोधूमादयो निष्पत्स्यन्ते । तेषां मधुरा-15 ॥ १३० ॥ हाराणां भोजनं करिष्यते । चपलादि खादं खादमदराणि कथितानि [चपलादिभिः पूर्वम् ] । ततः स्वजनैरुक्तं एवं
Jain Education
.
For Private & Personal Use Only