________________
पुनः प्राह प्रभवः-कुतोऽपुत्रस्य ते शुभागतिर्भविष्यति । यतः- अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्ग गच्छन्ति मानवाः ॥१॥" जम्बूकुमारः प्राह-" अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । स्वर्ग गतानि राजेन्द्र !, अकृत्वा कुलसन्ततिम् ॥१॥" पुत्रे सत्यपि केचिद् दुर्गतिं गच्छन्ति । तथाहि-तमालिनी नाम पुरी स्वर्गीयपुरीसोदराऽस्ति । तत्र महेश्वरदत्तेभ्योऽभूत् । स्नानहोमपितृतर्पणादि कुरुते ।। दुश्वारिणी नागिलेत्यभिधा पत्नी तस्याऽऽसीत् । अन्येयुः स श्रेष्ठी महिषं हत्वा जनकश्राडपर्वणि सपुत्रो मांसं भोक्तमपविष्टः । इतस्तत्रागतः साधुः श्रेष्ठिनं मांस भक्षयन्तं वीक्ष्य पश्चाद्वलन्निदं श्लोकं पठन्निस्ससार । पुष्णाति स्वपितुर्मासैः, शत्रुमुत्सङ्गसङ्गिनम् । विधत्ते च पितुः श्राद्ध -महो मोहस्य विस्मितम् ॥१॥ महेश्वरो विस्मितः, उत्थाय मुनिपार्श्वेऽभ्येत्य प्राह-भो साधो ! त्वया किमसमंजसमुक्तम् ? ततस्तेन श्रेष्ठिना स्वसम्बन्धं पृष्टो मुनि. रुवाच-नागिलाया उपपतिः शत्रुत्वाद्यः पुरा त्वयाऽघाति । स एव मृत्वा नागिलाया उदरे उत्पन्नः तवाग्रसुतो जातः।। यस्तव पिता समुद्रदत्तो मृतः, स एव महिषोऽजनि । त्वया तु तस्यैव पितुः श्राद्धे आनीय हतः । तस्य मांसं भक्ष्यते त्वया । या शनी मांसं भक्षयन्ती लकुटेन हता रौति सा तव माता अम्बाहा, अतस्तद्वोधाय मया श्लोकः ।
Jain Education
For Private & Personel Use Only
Hinw.jainelibrary.org