________________
Jain Education
चिरं प्रोच्यमानोऽपि मधुबिन्दुलोभेन बहुदुःखं सुखमयं मन्यमानो न निस्ससार । ततो विद्याधरः स्वस्थान के गतः । दरिद्रस्ततोऽतीव दुःख्यभूत् । इत्याद्युक्त्वा जम्बूः प्रभवं प्रति प्राह- हे प्रभव ! एवमहमस्मिन्नसारे संसारे | सुखे निमग्नोऽस्मि । अस्याः कथाया उपनयः- यो दरिद्रः पुमान् स संसारी जीवः, अयं भवो विकटाटवीतुल्यः, यो गजः स मृत्युः, यः कूपः स मर्त्यजन्म, योऽजगरः स नरकः, अहयो ये ते कषायाः, यो वटपादपः तदायुः यौ मूषकौ तौ सितासितपक्षौ, या मक्षिकास्ता व्याधयः, यन्मधु तद्वैषयिकं सुखं, यो विद्याधरः स गुरुः, य एवं| विधादसारसंसारान्निरसरति स मुक्तिगामी भवति । अन्यो नरकादिदुःखभागी भवति दुःस्थपुरुषवत् । ततः प्रभवोऽ| वग- सस्नेहां जननीं पितरं पत्नीबन्धुजनानमून् त्यक्त्वा कथं व्रतं जम्बूकुमार ! अङ्गीकरिष्यसि ? जम्बूकुमारोऽ| वग्- संसारासारतायामेकं कथानकं शृणु तथाहि - मथुरायां कुबेरसेना गणिका केनचित् - पुरुषेण भोगान् भुञ्जाना | पुत्र पुत्रीरूपं युगलमसूत । एकादशदिनान्ते कुट्टिन्योक्तं - आत्मीये गृहे अपत्यानि न पाल्यन्ते । तेनैतत् पुत्रपुत्रीरूपं युग्मं त्यज त्वमेवं कुट्टिन्योक्ते कुबेरदत्तः कुबेरदत्ता इति नामाङ्कितमुद्राद्वयं परिधाप्य दुग्धं पाययित्वा तौ पुत्री - पुत्रौ पेटायां न्यस्य यमुनाजले प्रवाहयामास । अथ सा पेटा गच्छन्ती सूर्यपूरवास्तव्येभ्याभ्यां गृहीता । तत एकेने ग्येन |
For Private & Personal Use Only
jainelibrary.org