SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ परिणीय महोत्सवेन श्वसुरदत्तनवनवतिस्वर्णकोटियुतः स्वमन्दिरमा जगाम । ततो द्वितीयेऽहनि अष्टभिः प्रियाभिः सह । जम्बूकुमारस्ताः प्रतिबोधयितुं सन्धायां सप्तमभूमौ स्थितः इतश्च विन्ध्यगिरौ जयपूरे विन्ध्यभूपस्य ज्यायान् प्रभवः । पुत्रोऽभूत् । लघिष्ठः सप्रभवः अन्येधुः पित्रा लघवे पुत्राय राज्यं दत्तम् । ततः प्रभवो रुष्टः पल्यां गत्वा पञ्चशतीचौरस्वामीजातस्ततः पञ्चशतीचौरयुतश्चौरिकां करोतिस्म । अवस्वापिनीतालोद्घाटिन्यौ द्वे विद्ये प्रभवस्याभताम् । जम्बूकुमारपरिणयनादिसम्बन्धमाकर्ण्य तत्समृद्धिलुण्टनाय निशि प्रभवो राजगृहपुरे ऋषभदत्तगृहं प्रविवेश । तालोद्घाटिन्या विद्यया तालकान्युद्घाटयन् स अवस्वापिन्या विद्यया जनानां निद्रां ददानः क्रमात प्रभवः पश्चशतीचौरयुतः तद्गृहलुण्टनाय जम्बूकुमारपार्श्वे गतः । तदा जम्बू कथाभिस्ताः कन्याः सदाभरणभारिणीः प्रबोधयन्तं । प्रभवो वीक्ष्य अवस्वापिनी निद्रां मुमोच | जम्बूकुमारं विना सर्वासां वधूनां निद्रा समायाता । ततः सर्वचौरयुतः आभरणानि गृह्णानश्चित्रलिखित इव स्तम्भितोऽभूत प्रभवः । ततः खिन्नप्रभवोऽवग्-भो । जम्बूकुमार ! त्वमात्मीयां स्तम्भिनी विद्यां मह्यं देहि । मदीये तालोद्घाटिन्यवस्वापिन्यौ हे विद्ये गृहाण । जम्बूः प्राह-अहं विद्याभ्यां किं करोमि । अमूरष्टावपि कन्याः प्रतिबोध्य एतावतीलक्ष्मीर्मुक्त्वाऽहं प्रातःक्षां गृही-16 Jain Educati o nal For Private Personal Use Only III ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy