________________
-
AA...
काश्रीजम्बू
कुमारस्य
॥१७॥
॥ श्रीभरते-|| अदीयमाने संयमे स्वयं शीलवतं जिघृक्षुर्जम्बूः स्वगृहे आगच्छन् मार्गे वैरिभी राजगृहे वेष्टिते सतिना श्वर वृत्तिः॥
- पुरप्रस्थै राजपुरुषैर्दुकनिकायन्त्रैः प्रस्तरान् मोच्यमानान् वीक्ष्य स्वस्मिन् विघ्नमवगत्य पश्चाद्गुरुपायुं गत्वा शीलवतं । चरित्रम् ।
लात्वा स्वगृहे समागात् । ततो मातापितरौ प्रति प्राह भो मातापितरौ ! अनुज्ञां मह्यं ददतं, अहं दीक्षां गृही-|| ष्यामि । मातापितरावूचतुः-एकस्त्वमेवावयोः पुत्रोऽसि । त्वां विनाऽऽवां निराधारौ कथं भविष्याः । एकशो मनोरथोऽष्टवधूपरिणयनोत्सवेन पूरणीयस्त्वया । ततः पितृवचोऽनुरोधतोऽवग् जम्बूः । अहं पूज्ययोर्वचनानुरोधात कन्या विवाहेनाङ्गीकारिष्यामि । यदि ताः प्रतिबोधयिष्येऽहं, तदा दीक्षा गृहीतव्या, नो चेद्गृहवासो भवतु मम । ततो ज्ञापितं जम्बूस्वामिनेदं कन्यापित्रादिपार्श्वे । अहं दीक्षां गहीष्यामि । ततस्तैः श्रेष्ठिभिः स्वस्वपुत्रीणामग्रतः प्रोक्तं जम्बूकुमारो विवाहानन्तरं भवतीः प्रतिबोध्य दीक्षां गृहीष्यति । ततः कन्यास्ता जम्बूपार्श्वेऽभ्येत्य जगुः-अस्माभिस्त्वमेव वरितोऽसि । यदि अस्मिन् भवे त्वमस्माकं पतिर्भविष्यास तदा भव्यं नो चेत संयमो भवतु । यदि वयं व त्वां कथाभिः संसारासक्तं करिष्यामः तदा त्वमेवपतिरस्माकं नो चेत् त्वया सह संयमो गृहीतव्य एव । ततः । ॥ १७ ॥ स जम्बूलग्नदिने गजाधिरूढः शिरसि घृतातपवारणः प्रकीर्णप्रकरवीज्यमानोभयपार्श्वः ता अष्टावपि श्वसुरगृहेषु ।
Jain Education M
inal
For Private Personal Use Only