SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कमलवती सुतां सुषुवे ७, वसुपालितगेहिनी जयसेना जयश्रियमसूत ८, अष्टावपि अमूः कन्याः जम्बूकुमारं | परिणेतुमिच्छन्त्यस्तस्थुः, जम्बूकुमारस्य पिता ताः कन्याः पितृभिर्दीयमाना मेने । तदानीं श्रीसुधर्मस्वामी तत्र बहिरुद्याने समागात् । धर्मे श्रोतुं जम्बूकुमारोऽपि ययौ । सुधर्म्मस्वामी गणधर एवं धर्मोपदेशं ददौ । “भवेद्भवार्णवः पुंसां, सुतरः सुतरामसौ । न्यञ्चनोदञ्चनोग्राश्चेन्न स्युः श्रीचयवीचयः ॥ १ ॥ मेघानामिव लोकाना -मायुर्गलति नीरवत् । चपलेव | चला लक्ष्मीः, पाण्डुतेवैति विश्रसाम् ॥२॥ तत्रायुषा च लक्ष्म्या च, वपुषा चास्थिरात्मना । चिरं स्थिरतरं रत्न - त्रयं | ग्राह्यं विवेकिना ॥ ३ ॥ तत्रोपाश्रयभैषज्य - पुस्तकान्नांशुकादिभिः । साहाय्यं ज्ञानिनां तन्वन्, ज्ञानमाराधयेगृही ||४|| | संघवात्सल्य जैनेश - वेश्मयात्रार्चनादिभिः । प्रभोः प्रभावयंस्तीर्थे, सम्यग् सम्यक्त्वमर्जयेत् ॥५॥ भक्त्या चारित्रपात्रेषु, | तथाऽऽवश्यक कर्मभिः । तपोभिरपि चारित्रं, गृहमेधी समेधयेत् ॥ ६ ॥ काले पाठादिभिर्ज्ञान - मशङ्काद्यैश्व दर्शनम् । मूलोत्तरगुणैः शुद्धै- वारित्रं भजते यतिः ॥ ७ ॥ इति रत्नत्रयाभे, हतमोहतमो नरैः । चिराद्गृहस्थैः सद्योऽपि, यतिभिः शाश्वतं पदम् ॥ ८ ॥ ये तु मोहग्रहग्रस्ताः प्रमादस्य वशं गताः । अशरण्यैर्भवारण्ये, भ्रमितव्यं सदाऽपि तैः ॥ ९ ॥ " इत्यादि धर्मोपदेशमाकर्ण्य जम्बूकुमारः संयमं जिघृक्षुरभूत । ततो गुरुभिर्मातापित्रोरनुज्ञां विना Jain Educamational For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy