SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १२५ ॥ | दत्तेति नामाऽजनि तस्य । क्रमाद्वर्धमानः पित्रा सहस्रशः कन्याः परिणायितः । ताभिः कन्याभिः समं भोगान् | भुञ्जन् सागरदत्तो गतमपि कालं न जानाति । एकदा सागरदत्तः सप्तभूमिधवलगृहोपरिस्थो जलदं सर्वदिग्व्यापिनं गर्जितविद्युतशालिनं दृष्ट्वा क्षणादुद्धतेन वातेनापसारितं प्रेक्ष्य समस्तभावेषु भङ्गुरीभावं व्यचारयत् । वत्रकायशरीराणामर्हतां यद्यनित्यता । कदलीसारतुल्येषु का कथा शेषजन्तुषु ॥ १ ॥ इत्यादि । अहो अनित्यमिदं जगदिति चिन्तयन् प्रतिबुद्धः सागरदत्तः संयमं गुरुपार्श्वे जग्राह भावतः । इतः तत्रैव विजये वीतशोकायां | पुर्या पद्मरथभूपतेः वनमालायाः पत्न्या उदरे भवदेवजीवो दिवयुत्वा शिवकुमारनामा पुत्रोऽभूत् । क्रमाद्वर्धमानः | पित्रा कुमारीः सुकुमाराङ्गीः परिणायितः शिवकुमारः । अन्येद्युस्ताभिर्महेलाभिः सह सदनस्योपरि स्थितः शिवः | कामसमृद्धस्य सार्थवाहस्य सद्मनि मुनिसागरदत्तमात्तभिक्षं व्यलोकयत् यदा तदाऽकस्मात् सुरैः कृतां पुष्पवृष्टिं तत्र मुनेरुपरि वीक्ष्य शिवकुमारो हृष्टोऽभवत् । अथ तस्य स्वस्थानगतस्य कृतपारणस्य मुनेः पार्श्वे धर्मे श्रोतुं | शिवकुमारोऽगात् । तदा कथामध्ये शिवकुमारपूर्वभवकथां न्यवेदयन्मुनिः । ततः शिवकुमारो वैराग्यरङ्गपूर्णमना यतिं नत्वा गृहेऽभ्येत्य पितरौ व्रतं याचते स्म । पितृभ्यामुक्तं यदि त्वं दीक्षां गृहीष्यसि, तदाऽऽत्रयोर्मृतिरवश्यं भवि Jain Education International For Private & Personal Use Only श्रीजम्बू स्वामिनः चरित्रम् । ॥ १२५ ॥ # wwwww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy