SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ धुना कथं भोक्तुं यतसे । कोऽज्ञो मृगेक्षणां त्यक्तां, वमिताशनसोदराम् । अङ्गीकुरुते ऽनन्त दुःखदुष्टादिहेतवे ॥ १ ॥ मूढाशय ! नवामूढामिवमामागतः स्मरन् । जराजर्जरितां पश्य, संसारस्य क सारता ॥२॥ यतः - "अतीवाशुद्धे वस्तूनां, मलिनीकरणक्षमे । देहे जरापराधीने, मुधा मुह्यन्ति जन्तवः ॥ १ ॥ यकृच्छकृन्मलश्लेष्ममद्यास्थिपरिपूरिताम् । स्नायुस्यूतां बहीरम्यां, स्त्रियं चर्म्मप्रसेविकाम् ||२||” अत्राशुचिभावना । एवंविधां दीक्षां संसारार्णवपतज्जन्तूद्धरण यानपात्रसमां | मुक्त्वा कथं दुर्गतिदीपिकां नारीमङ्गीकरिष्यसि । मया तु यावज्जीवं शीलवतं गुरुपार्श्वे गृहीतमस्ति । यतः - " स्त्रीणां शीलमेवाभरणम् । यतः- “ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति चित्तदमनं शीलं सुगव्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृत्तिहेतुरेव परमं शीलं तु कल्पद्रुमः ॥ १ ॥ ततो व्याघुटयाऽधुनैव गुरुपार्श्वे गत्वा शुद्धं चारित्रं मनसा पालय । इति प्रबोधितः प्रीतो, नागिला गेहिनीगिरा साधुः साध्विति चारित्रं भवदेवः स्तुवन्नभूत् ॥ १ ॥ क्षमयित्वा स्वमपराधं भवदेवः सूरिपार्श्वे गत्वा स्वं दुश्रिन्तितं सम्यगालोच्य पुनश्चारित्रं प्रतिपाल्य चिरं सौधर्मे खर्गे सुरोऽभूत् । महाविदेहक्षेत्रे पुष्कलावती विजये पुंडरीकिण्यां पुरि वज्रदत्तस्य चक्रिणो यशोधरायाः पत्न्या उदरे भवदत्तजीवः स्वर्गच्युतोऽवततार । पुत्रो जातः सागर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy