________________
॥ श्रीभरतेश्वरवृत्तिः॥
कुमारस्य
॥१२४॥
गतेऽन्येद्युः साधुश्रेणी सुप्तां मुक्त्वा नागिलां स्मरन् निशि निरससार भवदेवः। यतः-"रागी बध्नाति कर्माणि, नारी- श्रीजम्बू लक्ष्मीविमोहितः । नीरागो लभते सौख्यं, मानवोऽमलमानसः ॥ १॥ उल्लो सुक्को य दो छूढा, गोलया मट्टया मया । कथानकम् । दोवि आवडीआ कुट्टे, जो अल्लो सोवि लग्गइ॥२॥” अथ चलन् भवदेवः सुग्रामसिमनि क्वचित् प्रासादे गत्वा स्थित.।। तदा तत्रैकया वड्या सश्राविकया साकमेका स्त्री समायाता । सैव नागिला नाम्नी । तत्रापच्छत भवदे पार्श्वे नागिला कथं तिष्ठतीति ? प्रतितो नागिलया भवदेवं मत्वा प्रोक्तं-त्वं नागिलापतिरसि किं ? भवदेवोऽवगअहं तस्याः पतिरस्मि, परं भ्रात्रा स्वसद्मतः छद्मना गुरुपार्श्वे दीक्षितोऽहं मनो विना । मया नागिलास्मरणेनैवं व्रत पालितं द्वादशवर्षाणि । अथ सा विद्यते न वा । एवं भवदेवे जल्पत्यकस्मादेवयोगान्नागिलासख्याः पुत्रस्तत्रागतोऽ. भूत् । स प्राग शिक्षितः साधौ शृण्वति प्रकटमेव मातुरग्रे प्राहेति । मातरहमासन्नग्रामे भोजनार्थ निमन्त्रितोऽस्मि, दक्षिणार्थ च गमिष्यामि, वेला तु न क्षमते, गेहमेहि त्वं, अहंपूर्वभुक्तं दुग्धमुच्छालयित्वा भाजने क्षिप्त्वा तत्र । गत्वा भुक्त्वा च दक्षिणां गृहीत्वा पश्चादागत्य पुनस्तदुग्धं पास्यामि । एतच्छ्रुत्वा भवदेवो हसन्नवादीत-एवं कथं | ॥१२४ ॥ वमितमन्नं जुगुप्सितं बालकोऽयं भक्षयिष्यति ? । ततोऽवग् नागिला-अहमेव तव प्रियाऽस्मि, त्वया पूर्व वान्ताऽ-IMG
Jain Educati
o
nal
For Private Personal Use Only
walne brary